________________
ओमित्युक्त्वा गते भूपे, मन्त्री भृत्यान् समादिशत् । मोच्यः सैष शिशुस्तत्र, यतोऽत्राऽभ्येति नो पुनः ॥९३॥ अजापुत्रं गृहीत्वा ते, प्रान्तरप्रान्तकानने । एकाकिनं रुदन्तं तं, मुक्त्वा स्वं पुरमाययुः ॥१४॥ ततोऽजापुत्रकः काञ्चिद्दिशमुद्दिश्य जग्मिवान् । न प्राप काननप्रान्तं, भवाऽन्तमिव मूढधीः ॥१५॥ भ्रान्त्वा बहुदिनान्येष, वनपर्यन्तमीयिवान् । व्यवसायसहायो हि, कार्याऽन्तं याति मानवः ॥९६।। गर्भवासादिवाऽरण्याद् बहिर्भूतः प्रमोदभाक् । दवीयसीं पुरीं काञ्चित्, सोऽपश्यज्जननीमिव ॥९७|| ऋणं यद्वद्दरिद्रस्य, स्तोकं स्तोकं प्रयच्छतः । गच्छतः शनकैस्तस्य, न पन्थाः पर्यवस्यति ॥९८॥ बुभुक्षाक्षामकुक्षित्वान्नाऽग्रतश्चलतः क्रमौ । पिपासातमसाऽऽक्रान्ते, न दूरं पश्यतो दृशौ ॥१९॥ एवं कष्टादसौ गच्छन्नवृक्षे तत्र वर्त्मनि । अपश्यद्यक्षवेश्मैकं, रम्यं तन्मूर्त्यलङ्कृतम् ॥१००।। तस्य दक्षिणतश्चैकां, ज्वालालीढदिगन्तराम् । सुदुःसहधगद्वह्निपूर्णां गत्तॊ ददर्श सः ॥१०१॥ गर्तायाश्च चतुर्दिसूपविष्टांश्चतुरो नरान् । कौपीनवाससो वह्निज्वालां पातुमिवोद्यतान् ॥१०२।। उपेत्य तानजापुत्रोऽपृच्छयूयं किमत्र भोः !? । आसीना वह्निगर्ताऽन्ते, चिन्ताऽऽपन्नाश्च किञ्चन ॥१०३॥ १. इत ऊर्ध्वम्-सं० तिरोभूताथ मातेव, देवता सा तमन्वगात् । स्थाने स्थानेऽस्य आश्चर्य, दुर्घटं घटयिष्यति ॥ इत्यधिकमुपलभ्यते ।
२. पारं गच्छति ।
१०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।