SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तनयाऽभावदुःखिन्यै, भार्यायै तं समर्प्य सः । तनयो देवताभिस्ते, दत्तोऽसावित्युवाच ताम् ॥८१॥ तयाऽपि पुत्रवत्स्नेहात् पाल्यमानस्तु बालकः । द्वादशाऽब्दप्रमाणाऽङ्गः, सञ्जातः पुष्टिभागसौ ॥८२॥ अजापुत्र इति नाम्ना, ताभ्यामाकार्यते स तु । पशुपालेन पित्रेव, सार्धं याति पशुव्रजे ॥८३॥ पशुपालेऽन्यदा तस्मिन्, ज्वरबाधामुपेयुषि । अजावृन्दं समादाय, ययौ बालो बहिः पुरात् ॥८४॥ इतश्चाऽऽखेटकाद्राजा, निवृत्तः स्वपुरं प्रति । अजापुत्रश्रितां शीतां, तरुच्छायामशिश्रियत् ॥८५॥ अथाऽकस्मात्प्रादुर्भूता, सर्वाङ्गीणविभूषणा । उवाच युवतिः काचिद्वाचमेनां नृपं प्रति ॥८६॥ चन्द्रापीड ! महीश ! त्वामेषोऽजापालबालकः । अन्ते द्वादशवर्षाणां, लक्षसैन्यो हनिष्यति ॥८७॥৷ उक्त्वैवं सा तिरोभूता, यावत्तावन्महीपतिः । भयविस्मयव्यात्ताऽऽस्यः, किमेतदित्यचिन्तयत् ॥८८॥ निश्चितं काचिदप्येषा, पुराऽधिष्ठातृदेवता । ततो मयि कृतप्रीतिर्भाव्यमर्थमचीकथत् ॥८९॥ अथाऽसौ वीक्ष्य तं बालं, रक्षन्तं चरतः पशून् । निश्चिकायेति दृप्ताऽऽत्मा, न किञ्चिद्देवतावचः ॥९०॥ अथाऽऽह सुमतिर्मन्त्री, राजानं प्रति वत्सलः । नाथ ! देव्यो गिरः किं स्युः, प्रलयेऽप्यनृतस्पृश: ? ॥ ९१ ॥ चित्ते चेत्तव गर्वोऽयं, यन्ममाऽस्मान्न मृत्युभी: । अयं तथाऽपि निर्वास्यः, पुरात्किमत्र दुष्करम् ? ॥९२॥ सत्त्वेऽजापुत्रकथा । ९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy