________________
विचिन्त्यैवं गृहिण्यै चाऽऽचख्यौ यत्तनयस्तव । अस्मत्कुलसमुच्छेदी, तदेनं त्यज कुत्रचित् ॥६९।। यतः-समयः कदाऽपि स स्यादिष्टत्यागोऽपि यत्र निर्वृत्तये । स्नेहाल्लालितमूर्धजकर्तनमिव रोगखिन्नस्य ॥७०।। साऽऽकर्ण्य तद्वचः पत्युर्दुःखाऽद्वैतमुपेयुषी । सस्वजे मूर्च्छया पुत्रत्यागाऽऽज्ञाविस्मृताविव ॥७१॥ पूर्वप्रविष्टभाऽऽज्ञा, मनोदुर्गाद् बलादपि । मूर्छामनाशयत्तस्याः, सपत्नीमिव दूरतः ॥७२॥ स्वीचक्रे सा ततः शोकं, परिदेवनरोदनैः । आश्लिष्टव्यसनः कष्टं, न कैः कैरभिभूयते ? ॥७३।। यतः-इष्टमदृष्टमनिष्टं, दृष्टं कष्टं न कष्टमिह नष्टम् । कथय कथं कथयामः, संसाराऽसारतां वचनैः ? ॥७४॥ तादृक्पुत्रपरित्यागदुःखभल्लीनिराकृतौ । भर्त्राज्ञां कवचीकृत्य, निस्ससार बहिर्गृहात् ।।७५।। धिक्कुर्वती किलाऽऽत्मानं, पुत्रत्यजनकर्मणा । अत्याक्षीदर्भकं गङ्गा, जातमात्रं प्रगेऽध्वनि ॥७६।। वारं वारं निवृत्यैनं, चुम्बं चुम्बं शिरस्यसौ । रुदती कथमप्याऽऽगाद्भादेशवशाद् गृहम् ॥७७।। तदा च तेन मार्गेण, गच्छतस्त्वरितं बहिः । अजावृन्दादजा काचिदद्राक्षीदर्भकं भुवि ॥७८॥ रटतश्च पुराजन्ममातेव स्नेहविह्वला। नीचैर्भूयः स्तनं तस्य, मुखे स्तन्याऽर्थमक्षिपत् ॥७९॥ तस्या एवंस्थितायाश्च, प्रेरणाऽर्थं समापतन् । पशुपालः समालोक्य, तमादाय गृहं ययौ ॥८०॥
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः