________________
मिलित्वा ते द्वेये पक्षा, वामतोऽसव्यतः स्थिताः । आहन्यन्ते कषायैः प्राक्कन्दुकास्ते कुविद्यया ||२६|| तैरेकेनैव घातेन, प्राप्यन्ते श्वभ्रभूमिकाम् । तिष्ठन्त्यप्रगुणीभूता, दानाऽऽद्यास्तु तथैव हि ॥२७॥ एकशस्तान्पराभूय, दानाऽऽदीनपरिक्रमान् । कषाया दधते भूयो, रजस्यैवाऽऽत्मकन्दुकान् ॥२८॥ कथञ्चित्सज्जैर्दानाऽऽद्यैः, प्रेर्यन्ते श्रद्धयोर्ध्वकाः । गच्छन्तोऽर्धपथादूर्ध्वात्पात्यन्ते क्रुद्दलेन ते ॥२९॥
नीयन्ते स्वप्रतिज्ञातां, सुखेन श्वभ्रभूमिकाम् । प्रत्याहर्तुं तदग्राऽऽत्तान्, दानाऽऽद्याः पङ्गवः स्थिताः ||३०|| एवं च नित्यशो ऽप्युद्यत्कषायैर्जितकासिभिः । दानाऽऽदेरग्रतोऽप्येते, नीयन्ते तां स्वभूमिकाम् ॥३१॥
कषायैर्बलिभिर्ज्ञात्वा, पराभूतं स्वमुच्चकैः । दानशीलतपोभावास्ताम्यन्त्यप्रभविष्णवः ||३२||
प्राप्तनै:स्व्यकुटुम्बस्य, मानुषाणीव ते मिथः । अशक्ताः कलहायन्ते, तद्व्यावृत्तिविधौ ततः ॥३३॥
दानमाह किमत्राऽहं, कुर्वे यत्क्लीबमस्मि भोः ! [ भो !] । मया हि पोषितेनैव, कार्यमाचर्यतेऽखिलम् ॥३४॥
स्वमेव पोषयद्भिश्च, कषायैस्ते वशीकृताः । आत्मानो मां न पुष्णन्ति, तत्क्रमात्क्षीणमस्मि भोः ! ||३५|| एवं शीलाऽऽदयोऽप्याख्यन्, स्वां स्वां क्षैण्यदशां मिथः । ततः स्वयमशक्तास्ते, सत्त्वाऽपेक्षां प्रकुर्वते ||३६||
१. क्रोधादयो दानादयश्च ।
२. असमर्थीभूताः ।
४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।