________________
कथञ्चिदैवयोगात्ते(त्तैः), तेनैकेन सुकर्मणा । दुष्कर्मराशेरुद्वेल्य, प्राप्यन्ते जन्म पञ्चखम् ॥१५॥ पञ्चेन्द्रियत्वसारण्यां, वहन्तो वारिवत्त्वमी । स्थानेषु नीचनीचेषु, यान्ति दुष्कर्मणेरिताः ॥१६॥ विना धर्माऽम्बुयन्त्रेण, प्रोच्चैरारोढुमक्षमाः । अधोऽधो जलवद्यान्तो, वियन्ते रजसैव ते ॥१७॥ अपि पञ्चेन्द्रियत्वाऽऽदौ, न्यस्ताः सत्कर्मवारिदैः । दुष्कर्मदर्शिताऽध्वानो, रजःपु) पतन्त्यधः ॥१८॥ चेत्सुवर्णेकविस्तारे, पञ्चाऽक्षत्वसुराऽचले । ते मनुष्यत्वकल्पद्रुस्थानके यान्ति वारिवत् ॥१९।। ततो मर्त्यत्वकल्पद्रुः, सच्छायः फलतीह यत् । स्वाऽभिप्रेतफलं सोऽयं, तत्रैषां जायते गुणः ॥२०॥ गुणेन प्रावृता जीवाः, साधुवृत्ता भवन्ति च । क्रीडाकन्दुकवदैवात्, पतित्वाऽप्युत्पतन्त्यमी ॥२१।। क्रोधमानमायालोभाः, स्वैरं क्रीडनकाम्यया । दधत्याशु रजःपु), तानुच्चैर्जीवकन्दुकान् ॥२२॥ तत्प्राप्तिस्थानं स्वदले, कुर्वते नरकानमी । तानाहन्तुं दधत्येते, कुविद्याऽनृजुयष्टिकाम् ॥२३॥ तान् व्यावर्त्तयितुं पश्चात्, दलेऽभूवन् द्वितीयके । दानशीलतपोभावाः, कषायप्रतिपक्षिणः ॥२४॥ तत्प्राप्तिस्थानमेतेषां, निर्वाणपदभूमिका । श्रद्धैव सरला तेषां, तानुत्क्षेप्तुं तु यष्टिका ॥२५॥ १. पञ्च खानि-इन्द्रियाणि यस्मिन्, पञ्चेन्द्रियमित्यर्थः । २. पञ्चेन्द्रियत्वम् ।
३. कुविद्या एवाऽनृजु-वक्रयष्टिका ताम् ।
कथापीठिकावर्णनम् ।