________________
कम्पमानवपुः प्राह, दासो नाथ ! पुराद्बहिः । तडागे जालपतितं, दृष्ट्वैतदानयं त्विह ॥ २०० ॥ तस्येति वचनं श्रुत्वा, सम्यग्विज्ञाय चेतसि । नाऽत्राऽपराधोऽस्याऽस्तीति, बन्धादमोचयन्नृपः ॥२०१॥ तत: शकुन्तलासङ्गवियोगादतिं गतः । सर्वत्राऽपीक्षयामास, परं न प्राप तां प्रियाम् ॥ २०२॥ कालेन तत्र कण्वर्षेराश्रमे भूपतिर्गतः । युद्ध्यमानं मृगेन्द्रेण, द्रक्ष्यति स्वसुतं प्रियम् ॥२०३॥ ज्ञास्यत्येष मदीयोऽयं, सुत ईदृग् पराक्रमः । ततो दृष्ट्वा प्रियां तत्र, परमां मुदमेष्यति ॥२०४॥ इति दुष्यन्तराजस्य, विस्मृताऽपि शकुन्तला । मुद्राऽभिज्ञानदृष्टान्ताद्भूयोऽभूत् प्रेमभाजनम् ॥२०५॥
तथेयं त्वत्सखी किञ्चित्सङ्केतं वचनं च वा । निवेद्य वेद्यचतुरा, पतिं प्रत्याययेन्न किम् ? ||२०६॥
GETS ST महाभाग !, प्राञ्जलेयं सखी हि नौ । न वेत्ति वाच्यकर्तव्यज्ञातव्यानि पतिं प्रति ॥२०७॥ इत्यन्तरेऽभ्युदितोऽर्को जगतां पश्यतोहरः । अन्धकारपटं व्योम्नो यो जहार करैर्निजैः ॥ २०८॥
ततश्च बुद्धिसन्धानस्तस्य भूपस्य मन्त्रिराट् । रुदत्याश्च स्त्रियस्तस्याः, पिता सोऽत्र समाययौ ॥ २०९॥
मदीयोऽयं महामन्त्री, बुद्धिसन्धान स राजा तमुपलक्ष्येति, दूरीभूय ययौ गृहान् ॥२१० ॥
अचिन्तयच्च यन्मन्त्री, समागात्तत्र कानने । तन्मन्ये रुदती स्त्रीयं तत्पुत्री स्यात्सखीवृता ॥ २११ ||
२६८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।