________________
या मया परिणीताऽऽसीत्, सैवैषा न परा भवेत् । गर्भसन्देहकष्टेन, मया निर्वासिता गृहात् ॥ २१२॥
तत्किमेषा बहिर्मर्त्तुमुपागात्तत्पिता पुनः । प्रतिपाद्य गृहं नेता, स्वां पुत्रीं गुर्विणीमपि ॥२१३॥ अन्यदीयो मदीयो वा, तस्या गर्भोऽभवत् किल । तदेतज्ज्ञायते सम्यग्, न विना ज्ञानिना खलु ॥ २१४॥ इति चिन्तयन्तं क्ष्मापमासीनं संसदि स्वयम् । आगत्योद्यानपालस्तु, बद्धाऽञ्जलिर्व्यजिज्ञपत् ॥२१५॥ राजन् ! ब्रह्माण्डभाण्डाऽन्तर्वर्त्तिवस्तुनिवेदनात् । आराध्यः कानने कश्चिदेको ज्ञानी समाययौ ॥ २१६ ॥ राजाऽथ गर्भसन्देहविच्छेदायाऽऽशु जग्मिवान् । यथाविधि नमस्कृत्य, शुद्धभूमावुपाविशत् ॥२१७॥ चक्रे ज्ञानी च संसारदावानलघनाऽऽवलीम् । सद्धर्मदेशनां मोहमातङ्गच्छेदसिंहिकाम् ॥२१८॥ विज्ञायाऽवसरं राजा, सन्देहं मनसि व्यधात् । ज्ञानी चाऽऽख्यत् सती राजन् ! मन्त्रिपुत्री तव प्रिया ॥ २१९ ॥
ज्ञानिवाचं निशम्येति, राजा चित्तेऽकरोदिति । तां सतीं धिगहं मूढः, पराभूवं निरागसम् ॥२२०॥ अन्यच्चाऽद्याऽपि मग्नोऽस्मि, विषयाऽशुचिकर्दमे । सङ्गृह्णामि नवनवां, विष्ठाभस्त्रां नितम्बिनीम् ॥२२१॥ न पुनर्भवकुक्षेत्रे, बहुजन्माऽऽलवालके । पापानां बद्धमूलानां, छेदिनीं शमसम्पदम् ॥२२२॥ इति स्वेनैव वैराग्यसूर्यध्वस्ततमोगुणः । लक्ष्मीबुद्धिनृपस्त्यक्त्वा, राज्यं व्रतमुपाददे ॥ २२३॥
दुष्यन्त- शकुन्तलाकथा ।
२६९