SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ स्वेनोत्थाय वणिक् तस्य, हस्तादादाय तत्तदा । वीक्ष्यमाणोऽक्षराण्यत्र, दुष्यन्तस्येत्यवेक्ष्यत ॥१८८।। राज्ञोऽङ्गलीयकं ह्येतदिति व्याघुट्य सोऽर्पयन् । ददृशे नगराऽध्यक्षैः, किमेतदिति वादिभिः ॥१८९।। पुराऽध्यक्षा वणिग्घस्तात्तदादायोपलक्ष्य च । महीशमुद्रिकाचौरस्त्वमित्येनमबन्धयन् ॥१९०।। क्षिप्त्वा चतुष्पथे बद्धं, तं राज्ञे ते व्यजिज्ञपन् । अमुञ्चंश्च पुरो रत्नरम्यं तदङ्गुलीयकम् ॥१९१।। दृष्ट्वा तदुपलक्ष्याऽथ, राजाऽस्मार्षीदिदं किल । यन्मया मुनिपुत्र्यै हि, सङ्केतायाऽपितं पुरा ॥१९२॥ कथं च प्रियाया हस्ताच्च्युत्वा कैवर्तमासदत् ? । विनाऽनेन मया नोपलक्षिता हा ! शकुन्तला ॥१९३।। क्व तानि प्रथमप्रेमचाटुवाक्यानि तां प्रति ? । शत्रु प्रत्यप्यवाच्यानि, क्व चेदानीं वचांसि मे ? ॥१९४॥ मया तदुक्तं येन स्याद्भूयो दर्शनमेव न । अत एव वचः शान्तं, वक्तव्यमिति शत्रुषु ॥१९५।। धिग्मां दुर्जनमज्ञानां, कृतघ्नं निस्त्रपं शठम् । स्वीकृत्य चाटुभिः कान्तां, दुर्वाक्यैर्योऽधुनाऽत्यजत् ॥१९६॥ पश्यन्ती मयि तत्प्रेम, मनसिकृत्य मामिह । आगताऽपि प्रिया हा ! धिक्, पराभूता मया कियत् ॥१९७।। मम पराभवेनैषा, प्रविवेश महीतलम् । दिव्येन ज्योतिषा तेन, सा भविष्यति रक्षिता ॥१९८॥ ततः कैवर्तमाकार्य, दुष्यन्तो दुःखमीयिवान् । पप्रच्छ मुद्रिकारत्नशुद्धि क्वेदं त्वयेक्षितम् ? ॥१९९॥ दुष्यन्त-शकुन्तलाकथा । २६७
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy