________________
माययैव भवन्तोऽपि, पाखण्डिव्रतधारिणः । एनां मायाविनी कृत्वा, विश्वं विप्लावयन्ति ये ॥१७६।। तापसः प्राह संरुद्धक्रोधबन्धोऽपराधतः । राजन् ! नहि वयं विद्मश्चेष्टितं योषितामिदम् ॥१७७।। किन्त्वहं गुरुणाऽभ्यर्थ्य, प्रेषितोऽर्पयितुं तव । गृहाण त्यज वाऽप्येनां, त्वमीशोऽस्या ह्यतः परम् ॥१७८॥ इत्युक्त्वा स मुनिस्तूर्णं, चचाल स्वाऽऽश्रमं प्रति । शकुन्तलां ततः पृष्ठमन्वायान्तीं क्रुधाऽवदत् ॥१७९।। हते ! दुरात्मके ! दुष्टे !, पापिष्ठे ! कुलपांसने ! । दुःशीले ! मानुमामागाः, श्रयस्व पतिमात्मनः ॥१८०॥ स्थित्वा दिनानि तावन्ति, वयं कलङ्कितास्त्वया । अधुनैत्य विधाताऽसि, कलङ्कस्याऽपि चूलिकाम् ॥१८१॥ इत्युदीर्य मुनिस्तूर्णं, त्यक्त्वा तां मन्दगामिनीम् । आश्रमप्राऽञ्जलं मार्गमाश्रियत् सपरिच्छदः ॥१८२॥ गते मुनौ नृपस्याऽग्रे, तस्थुषी सा शकुन्तला । दुष्यन्तेन निषिद्धाऽथ, रुदती भुवमाह च ॥१८३।। पृथ्वि ! दुरात्मना पत्या, त्यक्ता मुक्ताऽत्र चर्षिभिः । नाऽन्यो मे शरणं तत्त्वं, द्विधा भव विशामि यत् ॥१८४।। इति तस्यां वदन्त्यां च, द्विधा जाता पुरो मही। ज्योतिषा केनचित्तूर्णं, क्वाऽपि नीता शकुन्तला ॥१८५।। अहो ! आश्चर्यमाश्चर्यमिति वाचि सभाजने । ययावुत्थाय राजाऽथाऽन्यत्र सञ्जातविस्मयः ॥१८६।। अन्यदा धीवरः कोऽपि, राज्ञस्तदङ्गुलीयकम् । विक्रेतुं स्वर्णवणिजां, दर्शयामास दूरतः ॥१८७।।
२६६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।