________________
कुतोऽप्यागत्य गान्धर्वविवाहादुपगम्य च ।
चलिता मां परित्यज्य, यूयं तत्किमिदं वचः ? ॥ १०४॥
ज्ञास्यन्ति मुनयश्चेन्मां, दैवादापन्नस [1] त्त्विकाम् । तेभ्यस्तन्मयिका किं स्याद्वाच्यमुत्तरमादिश ? ॥ १०५ ॥ राजाऽऽह सुभ्रु ! मा भैषीर्दुष्यन्तं मां विदन्त्यमी । मुनयस्तदमीभ्यस्त्वं, नामाऽऽख्यायाः, स्फुटोक्तिभिः ॥ १०६ ॥ अन्यच्च मुद्रिकामेनां, मामकीनां गृहाण यत् । अभिज्ञानं भवेदेषा, दैवाद्विस्मरणस्मृतौ ॥१०७॥
उक्त्वेति प्रेमसारं तामनुकूल्य शकुन्तलाम् । समर्प्य मुद्रिकां राजा, ससैन्योऽपि पुरं ययौ ॥ १०८॥ इतश्च सोऽपि कण्वर्षिः, प्रभासादागतो गृहान् । सख्या शकुन्तलाकान्तः, कर्णे विज्ञप्यतोचितः ॥१०९॥
अभ्यनन्ददसौ हर्षप्रकर्षाद्धूतमस्तक: । यदभूत्पाणिगृहीती, दुष्यन्तस्य शकुन्तला ॥११०॥ गृहीत्वा वक्षसा स्नेहात्, कवर्षिस्तां शकुन्तलाम् । वत्से ! पुत्रवती भूया, इत्याशिषमदान्मुदा ॥१११॥ मुन्याशिषैव तद्गर्भो निर्विघ्नं ववृधे क्रमात् । तापस्यो नित्यशो गर्भरक्षायत्त्रं व्यधुः स्वयम् ॥११२॥ दिनानां कियतामन्ते, पर्यालोच्यर्षिभिः सह । दत्त्वाऽऽशिषं तथा शिक्षां, कुलस्त्रीविहितां मुनिः ॥११३॥
मनःसन्तोषजननीं, जननीमिव तापसीम् । समर्प्य दुष्यन्तगृहे, शकुन्तलां व्यसर्जयत् ॥११४॥
दत्ताऽऽशिषं मुहुः कण्वमुनिं ससर्वतापसम् । साऽश्रुः प्रणम्य स्नेहात् साऽऽश्लिष्य दूरान्यवर्तयत् ॥११५॥
२६०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।