SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ वर्द्धयित्रीं ततो वृद्धां, तापसीं तापसीयुताम् । मातृस्नेहात् प्रणम्यैषा, गृह्णाति स्म तदाशिषम् ॥ ११६॥ आलिङ्ग्य च सखीवर्गमश्रुनिर्मग्नतारका । चिरैकस्थानाऽपराधं, क्षमयित्वा न्यवर्तयत् ॥११७॥ वीक्ष्यमाणा मुहुः पश्चात्, स्वस्थानं ममतावशात् । सिञ्चन्ती साऽश्रुभिर्मार्गं, चचालाऽथ शकुन्तला ॥११८॥ तापस्या मुनिभिर्द्वित्रैयन्ती तद्भर्तृपत्तनम् । ददर्श दक्षिणेनैषा, स्वच्छाम्बुविपुलं सरः ||११९|| मार्गसञ्चलनात् खिन्नसर्वाऽङ्गी जलवाञ्छया । सापत्न्यं स्वाऽऽस्यलक्ष्म्याऽब्जश्रियः कर्तुं ययौ सरः ॥१२०॥ पादप्रक्षालनव्याजाद्ददती सा जलाऽञ्जलिम् । तच्छ्रमाय ततो भूत्वा, शुचिः किञ्चित्पयः पपौ ॥१२१॥ पादौ प्रक्षालयन्त्याश्च, तस्यास्तदङ्गुलीयकम् । श्लथत्वादङ्गुलेः पार्श्वात्, पपाताऽन्तर्जलं क्वचित् ॥१२२॥ शकुन्तला त्वनभ्यासान्नाऽज्ञासीत्पतदम्बुनि । तत्किन्त्वस्मारयित्वाऽपि चचाल पुरतोऽध्वनि ॥ १२३॥ प्राप्ता च क्रमश: सैषा, स्वभर्तुर्नगराद्बहिः । विश्रम्याऽत्र क्षणं तन्वी, तत्पुरं प्रविवेश च ॥ १२४॥ आगत्याऽभिमुखीवाऽथ, किं वाच्यः पतिरित्यसौ । लज्जास्नेहादिवाऽऽश्लिष्यत्प्रविशन्तीं शकुन्तलाम् ॥१२५॥ तापसाश्च पुरो भूत्वा, फलहस्ता महीपतिम् । ददृशुः स्वर्गतः शक्रमवतीर्णमिवाऽवनौ ॥१२६॥ आसन्नीभूय राज्ञे ते, फलोपायनमार्पयन् । उर्ध्वकृत्य भुजं सव्यं, सम्भूयैवाऽऽशिषं ददुः ॥ १२७॥ दुष्यन्त- शकुन्तलाकथा । २६१
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy