________________
प्रवेश्य वचनं तत्त्वघातकं मुनिकर्णयोः । वशीकृत्य मनोऽक्षाणि, यन्त्रणादुदमोचयत् ॥९२॥ तानि चोच्छृङ्खलीभावं, कालदासाद्य दुर्ग्रहात् । स्वस्वग्राह्यरसाऽऽस्वादाऽर्पणोत्सुक्यमुपाययुः ॥९३॥ दृशाऽदर्श्यत तद्रूपं, कर्णेन श्राव्यताऽथ गीः । घ्राणेनाऽऽर्प्यत सौरभ्यं, विश्वामित्राऽऽत्मनो मुहुः ||९४ || तद्रूपाऽऽदिप्रहृष्टस्तदात्मा त्यक्त्वाऽऽत्मवीक्षणम् । लौल्यात्तां प्रति वक्रोक्तिं, वक्तुं जिह्वामथाऽऽदिशत् ॥९५॥
अमृतश्राविणी वाणी, मुनेरेतां हि मेनकाम् । सन्तोष्य स्पर्शनाऽक्षस्य, चक्रे सौख्यं रतात्किल ॥९६॥ यथाप्रतिज्ञाते पूर्णे, क्रमाद्गर्भं हि मेनका । बभार सुषुवे चाऽथ, सुखादेनां शकुन्तलाम् ॥९७॥ जातमात्रामिमां त्यक्त्वा, स्वर्ययौ सा च मेनका । कण्वेन मुनिना प्राप्ता, पुत्री चेयं व्यवर्द्धयत ॥९८॥
तदेषा मानिता पुत्री, मुनेरस्याऽतिवल्लभा । तिर्यञ्चोऽपि मुनीनां यत्, संरक्ष्याः किं पुनः स्त्रियः ? ॥९९॥
इत्युक्त्वा विरता साऽथ, राजा ज्ञात्वा तदन्वयम् । निश्चित्योपयन्तुं योग्यां, शकुन्तलां व्यलोकयत् ॥१००॥ मिथः सम्मिलनादृदृष्ट्योर्मनसी मिलिते तयोः । तज्जप्रेमद्विजेनाऽथ, तत्पाणी मिलितौ मिथः ॥ १०१ ॥ प्रेमरम्यं नृपः स्थित्वा, कियत् तत्रैव भीतिमान् । सम्भाव्याऽऽयातसैन्यस्योपद्रुतिं ध्रुवमाश्रमे ॥१०२॥
यामः स्वपुरं यद्भूयान्, कालोऽ ऽभूदागतस्य मे I इत्युक्ते भूभुजा प्राह, सात्रं साऽपि शकुन्तला ॥१०३॥
दुष्यन्त शकुन्तलाकथा ।
२५९