SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ दृशा दाहाऽऽम्नायं नियतमनुभूय स्वयमसौ, गिरीशोपाध्यायाऽऽदिषु निवहमाद्यं परिहरन् । सुमध्यामध्याऽस्य श्रमभुवमिवाऽनङ्गसुभटः, कटाक्षाऽऽग्नेयाऽस्त्राण्यभिकिरति यूनश्च दहति ॥८१॥ एषा तपस्विपुत्रीति, सन्देहेन मनोऽत्र मे । विकारीति च नैश्चित्यान्नृपोऽर्द्धवैशसं ययौ ॥८२॥ मित्रेण तत्सखीं राजाऽप्यपृच्छदेतदन्वयम् । चख्यौ प्रियंवदा राज्ञो वयस्याय यथातथम् ॥८३॥ विश्वामित्रमुनिः पूर्वं, तपस्यन् दुष्करं तपः । ददृशे क्वाऽपि शक्रेण, विस्मयाऽऽपन्नचेतसा ॥८४॥ अचिन्तयच्च स हरिर्यत्स्वेन तपसाऽन्वयम् । मामुत्थाप्य बलात् स्वर्गसाम्राज्यं स ग्रहीष्यति ॥८५।। परिपूर्णं तपस्तादृग्, यावदेष करोति न । तावत्सोपक्रम कञ्चित्तपोविघ्ने दधाम्यहम् ॥८६॥ अमोघं कामबाणं हि, कामिन्यो देहिनं प्रति । ता एव तन्मनःक्षोभसंरम्भायाऽऽदिशाम्यहम् ॥८७।। आसन्नामूचिवानिन्द्रः, सम्भावनेन मेनकाम् । विश्वामित्रमुनेः क्षोभमाधातुं त्वमसि क्षमा ॥८८॥ मेनका त्वाह साऽवज्ञं, कियदेतन्मम प्रभो !? । मम कटाक्षविक्षेपैः, स्मराऽऽतः को भवेन्नहि ? ॥८९॥ क्षोभप्रतिभुवं रूपमादायाऽहमिहैव हि । तत्तपोग्रन्थिमुद्ग्रथ्य, लयसर्वस्वमाहरेः ॥१०॥ इत्युक्त्वा सा ततः स्वर्गादुत्ततार भुवस्तले । यत्राऽऽस्ते स मुनिस्तत्र, गत्वाऽऽधात्क्षोभडम्बरम् ॥९१।। २५८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy