SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ अथ शकुन्तलां ताभ्यां, सखीभ्यां सह जग्मुषीम् । दूरतस्तरुसेकाय, महीनाथो ददर्श ताम् ॥६९॥ जाताऽनुरागस्तस्यां च, चिन्तयामास भूपतिः । अहो ! चित्रं मनो मेऽस्यां, तपस्विन्यां किमुत्सुकम् ? ॥७०॥ अथवा यन्मनो मेऽस्यां, समभूदभिलाषुकम् । तदियं खलु योग्या स्यात्, क्षत्रियाणां परिग्रहे ॥७१।। दृश्यतेऽस्याश्च वेषोऽयं, तपस्विजनतोचितः । लिङ्गिन्यां च सतां नेष्टा, प्रवृत्तिर्वचसामिति ॥७२॥ इति चिन्तयति क्षमापे, सिञ्चन्ती परितस्तरून् । साऽऽगादुपनृपस्थानलतावृक्षान् सखीयुता ॥७३॥ अथैकस्मिन् लतामूले, पयस्कुम्भो व्यलोट्यत । तन्निर्घातलताकम्पाद्धृङ्गो द्रागुदडीयत ॥७४।। इतस्ततः परिभ्राम्यन्नलिरेष कृतभ्रमः । दृशोः पद्मधिया हास्याद्दत्तकुन्दधियाऽधरे ॥७५।। पाणिना ताड्यमानोऽपि, समुत्थायाऽविशत् पुनः । भृङ्गः शकुन्तलाऽङ्गानि प्रेयानिव मुदाऽस्पृशत् ॥७६।। प्रशशंस नृपो भृङ्ग, शकुन्तलाऽङ्गसङ्गमात् । तत्त्वाऽऽलोचनमूढं स्वं, निनिन्द मदनाऽऽतुरः ।।७७।। ततः शकुन्तला मौग्ध्याल्लताकुले प्रविश्य सा । दृष्ट्वा भूपं साऽनुरागा, वक्रदृग्भ्यां व्यलोकत ॥७८।। पुनर्निवृत्य साऽऽचख्यौ, सखीभ्यां जातवेपथुः । सख्यौ तत्रैत्य दृष्ट्वा तावेतौ जहसतुर्मिथः ॥७९॥ राजा च तत्कटाक्षेण, प्रहतः प्राणहारिणा । दुस्सहं दाहमासाद्य, सद्यो हृद्यमथाऽपठत् ॥८०॥ --+ - + -+ - + - + - + - + दुष्यन्त-शकुन्तलाकथा । २५७
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy