SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ तत्प्रसीद पुनर्देहि, तपस्विन्यै ह्यनुग्रहम् । दृष्टः कोपः प्रभूणां हि, प्रणामाऽन्तः परं न यत् ॥५७।। इति मृदूक्तिभिः प्रोक्तः, शान्तीभूय मुनिः स हि । ददावनुग्रहं शापनिवर्तनाय शक्तितः ॥५८।। पतिप्रदत्ताऽभिज्ञानाऽङ्गलीयकस्य दर्शनात् । स्मरिष्यति पतिर्भूयः, कार्यो नैवाऽत्र संशयः ॥५९॥ आतिथेय्या प्रसाद्याऽसौ, द्राक् शकुन्तलया नतः । ततोऽदादाशिषं तस्यै, तनयोत्पत्तिलग्निकाम् ॥६०॥ ततः प्रियङ्करी प्राह, नैतद्युक्तं तपस्यताम् । यदज्ञानप्रमुग्धानां, शापदानं निरागसाम् ॥६१॥ शापे चाऽनुग्रहे चैव, सम्भाव्यते तपःक्षयः । तपःक्षये व्रती न स्यात्को नमस्येद्वतिब्रुवम् ? ॥६२॥ कृताऽपराधेऽपि जने, शान्तिः शस्या तपस्विनाम् । व्रतजीवितमेषां यत्तल्लोपे लोपितं व्रतम् ॥६३।। विना क्षान्ति न प्रमाणं, ज्ञानध्यानतपांस्यपि । विनाऽप्येतैः क्षमा ह्येका, वेत्रिणी तत्त्वदर्शने ॥६४॥ प्रभुत्वं सम्पदा सार्धमारोग्यं सौस्थ्यलीलया । गार्हस्थ्यं पुत्रसन्तत्या, दैहिकं तपसः फलम् ॥६५।। धातुसंशोषणादन्तःकरणेन्द्रिययन्त्रणात् । दृष्ट्वाऽऽत्मानं शिवं गच्छेदामुष्मिकं तपःफलम् ॥६६॥ आमुष्मिकं परित्यज्य, स मुनिस्तपसः फलम् । शापाऽनुग्रहतोषेषु, मुधा व्ययति सत्तपः ॥६७।। इत्युक्त्वा तत्सखीद्वन्द्वं, जगामेतस्ततो भ्रमत् । राजा च तत्र सुष्वाप, स्फाटिकाऽश्मशिलातले ॥६८॥ २५६ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy