________________
मुनिकुमारकांस्तल्लात्कुम्भकैराहृताऽम्भसः । सम्यक् सपरिकरान् स्पर्धाबन्धं सिञ्चतस्तरून् ॥४५।। साधु बालर्षिभिः कीरान्, पठतः क्रीडतोऽपि च । मुनीनां पुरतः स्वैरं, विश्वासाल्लालतो मृगान् ॥४६॥ मुन्याश्रममिति प्रेक्ष्य, हर्षाऽश्रुधौतकल्मषः । द्राक्षाकुओ प्रविश्याऽथ, विशश्राम महीपतिः ॥४७॥ श्रुत्वाऽथ दक्षिणेनैष, मिथः संलपनं स्त्रियोः । किमेते वक्ष्यतोऽत्रेति, सावधानोऽभवत्क्षणम् ॥४८॥ ततः प्रियंवदा प्राह, किञ्चिद्वेत्सि प्रियङ्करि !? । साह किं तत् ? परा प्रोचे, न चेज्जानासि तच्छृणु ॥४९।। गते कुलपतौ कण्वे, प्रभासक्षेत्रमात्मना । वरः कोऽपि कुलीनो मे, पुत्र्यै सम्पद्यतामिति ॥५०॥ तपःशक्त्या जगत्सर्वमन्यथाकर्तुमीश्वरः । आतिथेयीं जिघृक्षुः स, दुर्वासा वनमाययौ ॥५१॥ आगत्य स स्थितः कण्ववेश्मनः प्राङ्गणे क्षणम् । आतिथ्येऽधिकृता पित्रा, नाऽपश्यत्तं शकुन्तला ॥५२॥ क्षणं स्थित्वा स दुर्वासा, न दृष्टोऽस्म्यनयाऽप्यहम् । शपाम्येनां दुरात्मानमवलेपदुराशयाम् ॥५३॥ प्रभावस्तपसो मेऽस्ति, चेत्तत्स्वरूपगविते ! । प्रेम्णा स्वीकृत्य पूर्वं त्वां, विस्मृत्य त्यजतु प्रियः ॥५४॥ इत्युक्त्वा व्याघुटन् सोऽथ, शुश्रुवे ददृशे मया । धावित्वा चाऽहमेतस्य, पादयोः पतिताऽवदम् ॥५५॥ व्यग्रा व्यापारभारेण, नाऽद्राक्षीत्त्वामियं मुने ! । नाऽवज्ञया न गणेत्यर्थे त्वच्छपथो मम ॥५६॥
दुष्यन्त-शकुन्तलाकथा ।
२५५