SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ चलिताः समिदादाने, कण्वशिष्यास्तपस्विनः । मा मेति वाचमूचाना, द्राग् मृगस्याऽन्तराऽभवन् ॥३३॥ राजाऽपि तापसान् वीक्ष्य, मृगाऽङ्गरक्षकानिव । सञ्जहार त्रपान्यञ्चदास्यो बाणं क्रुधा सह ॥३४॥ लज्जासज्जं स्वयं भूपमूचुस्ते तापसा मृदु । महीश ! नाऽयमाचारस्त्वादृशां सुनयस्पृशाम् ॥३५॥ त्वद्धनुर्दफेकण्डूलदोर्दण्डानां महीभुजाम् । शरीराज्जीवमाक्रष्टुं, व्यापारयति सायकान् ॥३६।। ईदृशे कान्दिशीकेऽस्मिन्नशस्त्रे दीनचक्षुषि । आरण्यके मृगे मूलादकृताऽऽगसि मा कुपः ॥३७॥ अयं च क्रीडाहरिणो बालर्षीणामितस्ततः । परिभ्राम्यद्विशेषेण, पोषणीयो भवादृशाम् ॥३८|| चललक्ष्यकृतव्याजोऽप्येतान्मा त्वं वधी[गान् । अचलं शिवसौख्यं यद्धिसा लुम्पति देहिनाम् ॥३९॥ एतदध्यवसायेन, कल्मषं यदुपार्जितम् । दृष्ट्वाऽस्मदाश्रमं तस्मै, राजन् ! देहि जलाऽञ्जलिम् ॥४०॥ तपस्यन्त्य॒षयो यत्राऽधीयते यत्र चाऽऽगमः । तत्र श्रद्धालुरागच्छेद्यथा मुच्येत पाप्मना ॥४१॥ तद्गच्छताऽऽश्रमं यूयं, वयं यामः समित्कृते । तुभ्यमाश्रमगुरवे, कर्ताऽऽतिथ्यं मुनेः सुता ॥४२॥ इत्यूचिवांसो मुनयः, प्रणतास्तेन भूभुजा । प्रययुर्यत्र यातव्यमीक्षमाणा भुवस्तलम् ॥४३॥ राजाऽपि सोऽथ दुष्यन्तो मुक्त्वा रथमुपाश्रमम् । समित्रः प्राविशवृक्षान्, वीक्ष्यमाणः फलेग्रहीन् ॥४४॥ rrrrrrrrrrrrrrrrrrrrrrrrrarana २५४ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy