________________
राजाऽऽह कौतुकं चेद्वः, श्रूयतामवधानतः । अस्तीह भारते क्षेत्रे, साकेतं नाम पत्तनम् ॥२१॥
भारतीस्पर्द्धया लक्ष्मीर्यत्र प्रतिगृहं स्थिता । यं ब्राह्मी सगुणं चक्रे, श्रीराश्लिष्यति तं खलु ॥२२॥
तत्राऽभूत्प्रतिसामन्तप्रणत्युन्नतविक्रमः । दुष्यन्तो नाम भूमीशो वासाऽगारं रिपुश्रियाम् ॥२३॥
चललक्षभिदाऽभ्यासाऽङ्गदाक्षुत्तृषाजये । रथाधिरूढो राजाऽसौ, चचाल मृगयां प्रति ॥२४॥ प्रतापेनाऽऽदित्य इव, रथाऽऽरूढो व्रजन्नसौ । मृगमेकं ददर्शाऽऽराद्दुष्यन्तस्तापसाऽऽश्रमात् ॥२५॥ तमनु मुक्तवल्गाऽश्वोऽब्धौ नौरिवेष्टवायुना । दूरेऽभूद्यत्पुरः पृष्टे, दवयंस्तद्रथो ययौ ॥२६॥ रथनिधीतमाकर्ण्य, मृगः प्रैक्षिष्ट सम्भ्रमात् । तृणानि सोऽर्द्धजग्ध्वानि त्यक्त्वाऽधावीद्रथाऽग्रतः ॥२७॥ अहं चैतौ रथाऽश्वौ वा, वेगवन्तावितीक्षितुम् । प्रतिकार इवेभस्य, दधावे पुरतो मृगः ||२८|| एकस्यैव मृगस्याऽस्य, कियत्येषा गतिर्हि नौ | इतीव तौ रथहयावन्वेणं द्रुतमीयतुः ॥२९॥ पादैर्जातेक्षणैरिव I
यथा मार्गं पुरो गच्छन्, ग्रीवाभङ्गाद्रथं पश्यन्, याति भूमौ स खेऽपि च ॥३०॥
स्वदृग्रश्मिवरत्राभ्यां, बद्धाभ्यामेणवर्ष्मणि ।
आकृष्टाविव शीघ्रं तौ, रथाऽश्वौ प्रापतुर्मृगम् ॥३१॥
दुष्यन्तनृपतिर्बाणमाकर्णाऽन्तं प्रपूर्य सः । प्राप्तलक्ष्यपदं ह्येणं, प्रति यावद्विमोक्ष्यति ||३२||
दुष्यन्त- शकुन्तलाकथा ।
२५३