________________
इति तुच्छस्वभावत्वात्, परत्राणे गताऽऽदरः । परोपकारतो जन्म, करोति सफलं नहि ॥९॥ ततश्चाऽऽख्यायते तुभ्यं, दृश्यसे येन वत्सलः । इयं हि नः सखी प्राप्तगर्भा कान्तेन भत्सिता ॥१०॥ यदयं हि न मे गर्भो दुःशीले ! दुष्पतिव्रते ! । याहि निस्सर मद्गेहादित्येनां निरवासयत् ॥११॥ आययौ च पितुर्वेश्म, रोदनोच्छूनलोचना । ज्ञात्वा पित्राऽपि जामातुरुक्तिं निर्वासिता ह्यसौ ॥१२॥ किं करोतु वराकीयं, सुशीलाऽपि प्रियोज्झिता । अभीष्टा भर्तुरेव स्त्री, गौरवं लभतेऽन्यतः ॥१३॥ नरकेऽपि गतिर्नाऽस्ति, यस्य जीवस्य स स्फुटम् । सर्वदुःखनिधौ स्त्रीत्वे, दुष्कर्मभिनियोज्यते ॥१४॥ स्वेच्छया वर्तते चेत् स्त्री, दुःशीला सुनयाऽपि सा । दीना पराभवं याति, तत्सत्यमबला खलु ॥१५॥ राजाऽऽह च तदत्राऽसौ, कान्तोऽस्या नाऽपराध्यति । तस्य विस्मृतिरेतस्यामपराधविधायिका ॥१६।। तदभिज्ञानपूर्वाभिरुक्तिभिर्मण्डनैरथ । तद्विस्मृतिसपत्नीयमुत्पाद्या स्मृतिरेव हि ॥१७॥ स्मृत्वा विज्ञाततत्त्वोऽपि, चेदेनां नाऽभिमन्यते । तदाऽस्य दौष्टयमेवाऽस्ति, सत्पुमानेव सोऽन्यथा ॥१८॥ हेतोः कुतोऽपि येन स्यात्, कृतस्वार्थस्य विस्मृतिः । दुष्यन्तस्येव शापेन, विस्मृता हि शकुन्तला ॥१९॥ कामलेखा ततः प्राह, त्वं दुष्यन्तकथामिमाम् । कथय प्रथयाऽत्यर्थं, विनोदं मत्सखीं प्रति ॥२०॥
२५२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।