________________
दुष्यन्त-शकुन्तलाकथा
इतीत्थं कुब्जिके ! राजा, यथाऽयं रत्नमालया। वशीकृत्योपानही स्वे, वाहितः प्रेममोहितः ॥१॥ तथाऽन्याऽपि सुबुद्धिः स्त्री, प्रेम्णा वा स्त्रीगुणेन वा । विनयेन वशं नीत्वा, छन्देन नर्तयेत्प्रियम् ॥२॥ एषा तु नौ सखी मुग्धा, क्लीबा वक्तुमुपप्रियम् । लीलयैव पराभूता, कान्तेनाऽस्मृतिमीयुषा ॥३॥ कब्जिका प्राह किं कार्यं, कामलेखेऽधना सखि !? । एनां प्रियसखीं द्रष्टुं, ताम्यन्तीं येन नोत्सहे ॥४॥ दूरस्थो योऽशृणोदेतल्लक्ष्मीबुद्धिzपोऽथ सः । उपेत्य तत्सखीयुग्मं, पप्रच्छ तत्र कारणम् ।।५।। अत्यर्थं वार्यमाणाऽपि, किमेषा युवयोः सखी । विच्छाययति वक्त्राऽब्जं, कवोष्णै रोदनाऽ श्रुभिः ॥६॥ कामलेखाऽऽह कोऽन्यस्त्वां, विनाऽन्यदुःखदुःखितः । भूयो भूयः स्वयं पृच्छेत्, पराऽऽर्तिं सात्त्विकोत्तम ! ॥७॥ प्रच्छकश्चिन्तयत्येवं, यन्मयाऽप्रच्छि चेदयम् । तन्ममैव हि कर्ताऽसौ, स्वपरित्राणयाचनाम् ॥८॥
दुष्यन्त-शकुन्तलाकथा ।
२५१