________________
वेत्ति कृत्यमकृत्यं वा, नहि स्त्रीवशगो नरः । पराभूतिं परन्त्वेति, जनादसदृशादपि ॥२०१॥ तस्य धर्मरतिर्नेष्टा, कुलाचारेऽप्यनादरः । तस्य लज्जाभये न स्तः स्त्रीवशो यो हि मानवः ॥२०२॥ विप्रतार्य नरं प्रेम्णा, स्वदासं कुर्वते स्त्रियः । तदाज्ञां कुरुते सोऽपि, स्वाऽपराधभयादिव ॥२०३।। अन्यत्र मानमिच्छन्ति, गुरुभ्योऽपि नराः परम् । योषिद्भ्यस्तु सहन्त्येते, दुर्वचोघातलाघवम् ॥२०४॥ या मायामन्दिरं या च, याचतेऽन्यं रता परे । लोहनौरिव संसाराऽम्भोधौ या मज्जयत्यहो ! ॥२०५।। विरक्तिहेतौ तस्यां हि, सुरागो मे कियानभूत् । येनाऽऽत्तस्नेहमोहेन, वाहितस्तदुपानहौ ॥२०६।। तदलं मेऽनया येन, पराभूतोऽस्म्यहं यया । अथवैषैव मे हेतुर्भवं प्रति विरक्तये ॥२०७॥ यद्यहं स्नेहललितो नाऽस्यां स्यां न पराभवः । तदा स्यात्तन्निजे राज्ये, मग्नो यायामधो भुवि ॥२०८।। इत्यालोच्य दृढं राजा, स्वमनोमन्त्रिणा सह । रत्नमालासुतायाऽदाद्राज्यमादात् स्वयं व्रतम् ॥२०९।।
इति रत्नमालाकथा समाप्ता ॥
२५०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।