________________
रत्नमाला तु नीरङ्गीप्रच्छादितवराऽऽनना । नाऽतिदूरे स्थिता पुत्रं, दर्शयन्ती पुरोऽभवत् ॥१८९।। स्वाऽनुरूपं सुतं प्रेक्ष्य, सम्बन्धमस्मरंश्च सः । राजा सन्देहमापनश्चिन्तासन्तानभागभूत् ॥१९०॥ ततः सन्देहमुच्छेत्तुं, नीतिसारः स मन्त्रिराट् । आनाय्य दर्शयामास, तानि पत्राणि भूभुजे ॥१९१।। राजा ददर्श तेष्वेवं, प्रारभ्य प्रथमं दिनम् । प्रश्नोत्तरकथां वार्ता, श्लोकं गाथां प्रहेलिकाम् ॥१९२।। यद्दिनोक्तं यथोक्तं च, साभिज्ञानं तथैव तत् । वाचयित्वा ततो राजा, खेदविस्मयमासदत् ॥१९३॥ कथं सा मन्त्रिपुत्रीयं, नर्तकीदम्भमीयुषी । नवोढत्वे प्रतिज्ञातं, यन्मत्तस्तदचीकरत् ।।१९४।। सङ्ग्रामेषु द्विषः कष्टात्, खड्गाखड्गियुधा जिताः । मया हि सार्वभौमेन, दोर्दर्पोत्सर्पदात्मना ॥१९५।। अनया त स्त्रिया बुद्धिसम्पन्नमायया क्षणात् । अनायासेन धीमत्या, तावानेष जितोऽस्मि धिक् ॥१९६।। अथवा विषयी को हि, कामिनीभिजितो नहि । यतस्ताः शस्त्रसर्वस्वं, विजिगीषोर्मनोभुवः ॥१९७।। एताभिर्विजितः पूर्वं, मिथ्यावाग्भिर्नरस्ततः । अन्यैः कुव्यसनैः सौख्यात्, स्त्रीरतो जीयते खलु ॥१९८॥ न मातुर्न पितुर्नैव भ्रातुर्न स्वजनस्य च । न गुरूणां करोत्याज्ञां, नरः स्त्रीव्यसनेरितः ॥१९९।। अपि तु कृत्रिमप्रेमपूर्णचूर्णवशीकृतः । स्त्रीणामाज्ञां वहत्येष, स्त्रीजितः शिरसा स्वयम् ।।२००।।
रत्नमालाकथा।
२४९