SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ विना तामक्षमः स्थातुं, तद्रूपमलिखत्पटे । सम्पश्यन् स चित्रपटं, दिवसानत्यवाहयत् ॥१७७।। इतश्च रत्नमाला सा, समये सुषुवे सुतम् । अदाच्च तस्य बालस्य, नाम क्षेमङ्करस्त्विति ॥१७८।। लाल्यमानो बभूवैष, बालकः क्रमशो महान् । नीतिसारस्ततोऽवादीद्रत्नमालां सुतां निजाम् ॥१७९॥ वत्से ! त्वं नृपतेः क्षुद्रादेशं यथोक्तमेव हि । अकृथास्तत्सुतं लात्वा, चलेदानीं नृपं प्रति ॥१८०॥ ततः सा मितशृङ्गारा, समारुह्य सुखाऽऽसनम् । अङ्के निवेश्य पुत्रं स्वं, प्रतस्थे नृपतिं प्रति ॥१८१॥ नीतिसारोऽपि भूयांसि, तानि पत्राणि सादरम् । आरोप्य वाहने निन्ये, राजसंसदि बुद्धिमान् ॥१८२।। अग्रे भूत्वा ततो भूपं, नीतिसारो व्यजिज्ञपत् । नाथ ! त्वत्तनयोऽभ्येतीति दिष्ट्या वर्द्धसेऽधुना ॥१८३॥ कुतः कथं सुतो मेऽभून्मन्त्रिन्निति ससम्भ्रमम् । राज्ञोक्ते मन्त्रिराट् तत्राऽनाययत् ससुतां सुताम् ॥१८४॥ अकथयन्नृपायैवं, राजन्नेषा तव प्रिया । अयं च ते सुतः सम्यक्, स्मर त्वं नाऽन्यथा ह्यदः ॥१८५।। चिन्तयन्नपि नाऽस्मार्षीद्रत्नाऽङ्गदनृपोऽथ ताम् । रत्नमालां व्यलोकिष्ट, दृशा कूणितया मुहुः ॥१८६।। नाऽज्ञासीद्रत्नमालां तां, नर्तकीत्वे ह्यसम्भवात् । अन्यं व्यतिकरं कस्याश्चिदपि नाऽस्मरत् स्त्रियाः ॥१८७॥ उवाच च नृपो मन्त्रिन्न मे स्मरति किञ्चन । अजानंश्च कथङ्कारं, स्वीकुर्वे ससुतामिमाम् ।।१८८।। २४८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy