________________
नाऽश्रौषीत्तत्र सङ्गीतं, नाऽपश्यत्तत्र तां प्रियाम् । किन्तु देवगृहं शून्यं, वीक्ष्याऽभूच्छून्य एव सः ॥१६५।। वीक्ष्यमाणः क्षणं मागं, तस्थौ तत्र कियन्नृपः । ज्ञात्वाऽथ ज्यायसी रात्रि, राजा तत्सौधमागमत् ॥१६६।। तथाऽपि पिहितद्वारमारुह्याऽन्तः प्रविश्य च । ऐक्षिष्ट परितो लोकं, किन्त्वद्राक्षीन्न किञ्चन ॥१६७॥ यथास्थानमुपेत्याऽथ, रत्नमालां व्यलोकयत् । चन्द्रिकामिव दर्शे तां, ददर्श क्वाऽपि तत्र न ॥१६८॥ क्वैषाऽगात्सह दासीभिरननुज्ञाप्य मामपि । इति स्नेहात्स तत्रैव, तस्थौ स्थानममत्वतः ॥१६९।। तथैव चोषसि प्राप्ते, राजाऽगादात्मनो गृहम् । उपविश्य सभायां स, नीतिसारमदोऽवदत् ॥१७०॥ मन्त्रिन् ! केनेदमद्वैतं, विदधे जिनमन्दिरम् ? । तत्राऽभून्नर्तकी या च, सा ययौ क्व कथं ननु ? ॥१७१।। मन्त्र्यूचे नाथ ! देवौकः, कारितं त्वत्प्रसादतः । स्वपित्रोः श्रेयसे स्वात्मद्रव्यैरेतन्मया खलु ॥१७२॥ या चाऽत्र नर्तकी ह्यासीत्सा तु वैदेशिकी प्रभो ! । कुतोऽप्यागत्य तत्राऽभून्नर्तकी द्रव्यलोभतः ॥१७३॥ ततश्चाऽद्यौष्ट्रिकाः केचिदागत्याऽस्यै किमप्यथ । निवेद्य प्रसाद्य तोषात्तामनैषुः पुनः क्वचित् ॥१७४।। मह्यं किं न त्वया मन्त्रिन् ! विज्ञप्तस्तद्गतिस्तदा । इति ब्रुवन्नृपोऽप्यावं, प्राहिणोत्तामनुद्रुतम् ॥१७५।। भ्रमं भ्रमं चतुर्दिक्षु, तेऽप्यागुः सादिनः पुनः । तद्वियोगान्नृपोऽङ्गेषु, प्राप तापं मनःक्लमात् ॥१७६॥
रत्नमालाकथा ।
२४७