________________
नृत्य श्रान्तानि मेऽङ्गानि, कः संवाहयिताऽधुना ? । रूक्षत्वात् कठिनौ पादौ, कस्तलहस्तयिष्यति ? ॥१५३॥ इति वदन्ती सा स्नानशालायामगमद्द्द्द्रुतम् । चकारोपक्रमं स्नाने, यावत्तावन्नृपः स्वयम् ॥१५४॥ रत्नमालामसौ मुदा ।
आगत्य स्नपयामास,
अनुरक्तः परित्यक्तव्रीडः किं किं करोति न ? ॥१५५॥ शय्यामन्वागतायाश्च, तस्या रत्नाऽङ्गदः पदौ । क्षालयित्वा घृतेनैषोऽभ्याञ्जीत पदाऽन्तिके स्थितः ॥१५६॥ आययौ च क्षणान्निद्रा, तस्या जातेष्टपूरणात् । तस्थौ तथैव राजाऽथ, तत्पादौ तलहस्तयन् ॥ १५७॥
जागरित्वा ततो भूपं, तथास्थितमुवाच सा । धिग् निद्राजगराया मे, प्रमादोऽभूत् कियानयम् ? ॥१५८॥ एकं चाऽनुचितं ह्येतद्यत्पादम्रक्षणं प्रियात् । तत्राऽपि निद्राऽभिष्वङ्गो ममाऽभूदपराधकृत् ॥१५९॥ एत विश्राम्यत क्षिप्रं, पल्यङ्केऽत्र प्रसीदत । इति धृत्वा स्वहस्तेन, सा तत्र तमसूषुपत् ॥ १६०॥
अतिवाह्य निशां स्नेहाद्राजाऽगाद्नेहमात्मनः । स्वस्य गर्भं परिज्ञाय, ययौ साऽपि पितुर्गृहम् ॥१६१॥
पित्रे साऽचीकथद्वृत्तं, राजसङ्गमजं निजम् । यथोक्ता नृपवाचश्च, पत्रन्यस्ता अदर्शयत् ॥ १६२॥ सन्तुष्टः सोऽपि पत्राणि, न्यासीकृत्य मुमोच तु । वर्द्धमानं क्रमाद्गर्भं, रत्नमालाऽप्युवाह सा ॥ १६३॥ ततश्च स द्वितीयेऽह्नि, तथैव जिनसद्मनि । नृपस्तदनुरागेण, ययौ तत्र द्रुतं द्रुतम् ॥१६४॥
२४६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।