________________
विचिन्त्यैवं नृपस्तस्या, जगृहे ते उपानहौ । दधावे तामनुक्षिप्रं, येन स्नेहः किलेदृशः ॥१४१॥ व्यावृत्तवदना सा च, रत्नमाला समीक्ष्य तम् । गृहीतोपानहं भूपं, मुमुदेऽन्तर्मनः सुधीः ॥१४२॥ एकेन पाणिना वोढुमशक्नुवन्नुपानहौ । एकैकेन किलैकैकां, पाणिनोवाह तां पृथक् ।।१४३।। तथाऽप्यशक्नुवन् वोढुं, मूर्जा प्रोवाहते उभे । स्त्रीवशाः किं न कुर्वन्ति ?, ह्यकृत्यं कृत्यवत् किल ॥१४४॥ आभुग्नकन्धरो भारान्मन्दं मन्दं महीपतिः । अगादनुपदं तूर्णं, जातपूर्णाऽनुरागतः ॥१४५।। सौधद्वारमथोपेतामुत्तरन्तीं सुखाऽऽसनात् । रत्नमालामसौ वीक्ष्य, ते मुमोच पदोरधः ॥१४६।। ससम्भ्रममुवाचैषा, रत्नमाला महीपतिम् । भवद्भिः किमिदं चक्रे ?, कर्म दासोचितं हहा !! ॥१४७॥ किं न दास्यो मदीया हि, गत्वाऽऽनेष्यन्नुपानहौ । प्रत्यवायो ममैषोऽभूदनौचित्यविधापनात् ॥१४८॥ अनुशोच्येति कृतकं, रत्नमालाऽविशद्गृहे । राजाऽनुरागपाशेनाऽऽकृष्टान्तःकरणोऽनु च ॥१४९॥ रत्नमाला प्रविश्याऽथ, तौ सुखाऽऽसनवाहको । विसृज्य शब्दयामास, स्वं दासीजनमुच्चकैः ॥१५०।। पूर्वमेव गतोऽन्यत्र, नाऽभूदासीजनोऽत्र सः । क्वेमा रण्डा गताः सर्वा ?, गृहं त्यक्त्वेति साऽवदत् ॥१५१॥ एतावत्यां निशीथिन्यां, कष्टं कृत्वाऽनुभूय च । आगताऽस्मि जिनगृहानैवाऽस्ति कोऽपि वेश्मनि ॥१५२।।
-
-
-
रत्नमालाकथा।
२४५