________________
मां मुक्त्वा जिनचैत्येऽस्मिन्नाऽऽगन्तव्यं पुनर्गृहे । दासी: सङ्केत्य सा त्वैवं, रत्नमाला ययौ जिनम् ॥१२९॥ सुखाऽऽसननरान् देवगृहाद्बहिर्विमुच्य सा । प्रविश्याऽऽरब्धसङ्गीताऽरज्यत स्वयमेव च ॥ १३०॥
,
परिपूर्णकला चैकं परं च पुरतोऽर्हतः । रञ्जनीयो नृपश्चेति, रङ्गकारणसन्ततिः ॥१३१॥ तथैव च नृपोऽभ्येत्य, कृताऽङ्गरागविभ्रमः । संवीतदिव्यनेपथ्यस्तस्थौ स्तम्भतिरोहितः ॥ १३२ ॥ सङ्गीतविरतौ जग्मुः, स्त्रियस्ताः पार्श्वगायिकाः । यद्रत्नमालया पूर्वमादिष्टा गमनेऽभवत् ॥१३३॥ रत्नमाला विलम्बाय, प्रविश्याऽन्तर्जिनौकसः । नताऽङ्गी ववन्देदेवान्, भावादिव कृतस्तवा ॥ १३४॥ बहिर्निःसृत्य भूपेन, चचालाऽनुगताऽथ सा । माययाऽह्वत् स्वदासीश्च, ताभ्यो लेभे न तूत्तरम् ॥१३५॥ कृत्रिमं कोपमाधाय, दासीश्चक्रोश कर्कशा । कोsधुनोपानहौ मे हि, ग्रहीष्यतीत्यदोऽवदत् ॥१३६॥ आरुरोह क्षणादेषा, सुखासनं कृतग्रहा । मुमोचोपानहौ स्थूले, दृढभारे पदाद्भुवि ॥१३७॥
उपानद्ग्राहकाऽभावादिव सा नोत्सुकायते । तौ प्रतिस्कन्धिकौ भाराच्चेलतुः सञ्ज्ञितौ तया ॥ १३८॥
राजाऽथ चिन्तयामास, नाऽस्या दासीजनोऽस्ति तत् । गृह्णाम्येते स्वयं येन, पश्यन्नास्ते न कोऽपि माम् ॥१३९॥
अथ नेमे ग्रहीष्यामि, तदा लास्यति कश्चन । अन्यच्च ज्ञापितं न स्यात्, प्रेमाऽस्याः पुरतो निजम् ॥१४०॥
२४४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।