________________
तथैव च पुरो नाभिसूनोः सङ्गीतकं मृदु । कुर्वत् स्त्रीवृन्दमद्राक्षीदोषीच्च नृपो मुदा ॥११७।। शनैरुत्तीर्य वप्राऽग्रात्, स्तम्भच्छायाऽतिरोहितः । अपश्यत् रत्नमालां तां, नृत्यन्तीमुर्वशीमिव ॥११८॥ अभूच्च नृपतेस्तस्यामनुरागोऽतिदुस्सहः । तादृगूपं कला सा च, कस्य नोन्मादकारणम् ? ॥११९।। यदर्थमयमारम्भः, कथं सोऽद्याऽपि भूपतिः ? । नाऽऽयातीत्यभितो रत्नमाला स्वां दृष्टिमक्षिपत् ॥१२०॥ दक्षया वक्रया भूयः, प्रेषिताऽऽगतया दृशा । महीशो रत्नमालायै, हस्ते धृत्वा समार्ण्यत ॥१२१।। दृष्टश्च नरपो रत्नमाला प्रारम्भमात्मनः । सार्थकं मानयामास, स्वां बुद्धिं प्रशशंस च ॥१२२॥ विसृज्य च तदैवैषा, प्रेक्षणीयकमुत्सुका । चचाल सा सखीहस्तन्यस्तस्वकरपङ्कजा ॥१२३॥ नाऽतिदूरस्थितस्तस्यामाहिताऽक्षोऽनुरागतः । तदङ्गरागसौरभ्यादिष्टमार्गो ययौ नृपः ॥१२४॥ तामनुप्रविवेशेष, तत्सौधे रत्नराजिनि । वेश्ययैव तया सौधप्रतिपत्त्याऽन्वरज्यत ॥१२५।। रजनीविरतौ राजा, तत्सौधात्सौधमात्मनः । वेगादागत्य सुष्वाप, पल्यङ्के पूर्ववत् किल ॥१२६॥ एवं च नित्यमागत्य, सङ्गीतं वीक्ष्य भूपतिः । एकाकी रत्नमालायाः, सौधे शेतेऽनुरागतः ॥१२७॥ रत्नमाला च राजाऽसौ, यद्भाषते निशिस्थितः । साऽभिज्ञानं हि तत्सर्वं, लिखति स्म दिने दिने ॥१२८॥
रत्नमालाकथा ।
२४३