________________
मध्येभवनमुत्तीर्य, राजा रत्नाऽङ्गदस्ततः । स्फूर्जन्मणिकृतोद्योतं, प्रैक्षिष्ट तं जिनालयम् ॥१०५॥ अकारि रम्यं केनेदं, मन्दिरं श्रीजिनेशतुः ? । अमन्दाऽऽनन्दसङ्गीतकोविदाः का इमाः स्त्रियः ? ॥१०६।। रूपेणाऽनेन सङ्गीतेनाऽनेन निश्चयादिमाः । भवन्ति नैव मानुष्यः, किन्त्विमा देवयोनयः ॥१०७।। हहा !! मे पुरतोऽप्येता, जग्मुः सङ्गीतयोषितः । एकोऽस्थामहमेवाऽत्र, गीतमोहितमानसः ॥१०८।। भवतु चेत्पुनर्भूयोऽप्यागच्छेयुरिमा इह । ततो द्रक्ष्याम्यहं श्वोऽपीत्यालोच्य सौधमागमत् ॥१०९।। तत्सङ्गीतं स्त्रियस्ताश्च, ध्यायन्नेव महीपतिः । तत्यजे निद्रया रात्रौ, दिवा च राज्यचिन्तया ॥११०॥ राज्ञः प्रेक्ष्य स्मराऽवस्थामस्तमेत्य स्वयं रविः । कामिकार्यसहायिन्या, रात्रेरवसरं ददौ ॥१११।। निशास्त्रीराज्यमेतर्हि, नाऽत्र प्रतिभटो भवेत् । समयज्ञस्तमो मन्त्री, व्यानशे भुवनोदरम् ॥११२॥ लावण्यं मे स्वभावेन, न स्त्रीभ्योऽपहृतं मया । इति विष्णुपदस्पर्शान्निःशङ्कः प्रोदगाच्छशी ॥११३।। शरीराऽपाटवव्याजाद्विसृज्याऽऽशु सभाजनम् । आदाय कृत्रिमा निद्रां, पल्यङ्केऽशेत भूपतिः ॥११४॥ यथास्थानं गते लोके, निद्राभाज्यङ्गरक्षके । उत्थाय शनकै राजा, सौधादवातरद्भुवि ॥११५।। आशूत्पाटितपादाभ्यां, गच्छन्नुत्सुकमानसः । तथैव पिहितं द्वारमालोक्य वप्रमासदत् ॥११६।।
२४२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।