SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ नमस्कृत्य जिनाधीशं, पिधाय द्वारमादिमम् । प्रारेभे रत्नमालाऽथ, स्त्रीसङ्गीतं पुरोऽर्हतः ॥१३॥ एवं च नित्यशोऽभ्येत्याऽनुकलं नृत्यति स्वयम् । पुरसौधे वसत्यस्मिन्, दासीभिरुपसेविता ॥९४॥ अथैकदा नृपो रात्रौ, निद्राया अर्पितक्षणः । सङ्गीतध्वनिना तेन, समेत्योत्थापितोऽद्भुतम् ॥१५॥ आगतश्च बहिर्वेगान्निशम्य निभृतं ध्वनिम् । बभूवोत्कण्ठितः श्रोतुं, सङ्गीताऽमृतमात्मना ॥१६॥ सन्त्यज्य यामिकदृशं, सौधादुत्तीर्य खड्गभृत् । अभिगीतध्वनि गच्छन्, प्राप तज्जैनमन्दिरम् ॥९७।। विद्युदुत्क्षेपकरणादारुह्य वप्रभूमिकाम् । अपश्यन्मृदु सङ्गीतं, विस्मयस्तिमितेक्षणः ॥९८॥ मध्यतोऽवतरणीयमिति विस्मृत्य भूपतिः । तस्थौ तत्रैव वप्राऽग्रे, सङ्गीतेन वशीकृतः ॥९९॥ सङ्गीतं केवलं स्त्रीणां, तत्प्रेक्ष्याऽभून्महीपतिः । चक्षुःश्रोत्रोपनीतोद्यदानन्दस्नातमानसः ॥१००॥ सङ्गीतं शृण्वतस्तस्य, या चित्तैकाग्रताऽभवत् । तत्त्वध्याने भवेत्सा चेन्नूनं मुक्तिवरो भवेत् ॥१०१॥ कृत्वा पुरस्तादैवस्य, सङ्गीतं विहितं क्षणम् । नमस्कृत्य प्रभोर्मूर्ति, स्त्रीवृन्दं क्वचिदप्यगात् ॥१०२॥ शृण्वन्नस्मि तथैवैतत्, किलाऽहमिति मानसः । गीताऽनुरणनभ्रान्तिविश्रान्तश्रवणोऽस्ति सः ॥१०३॥ क्षणं स्थित्वा ततो ज्ञातसङ्गीतविरतिक्षणः । ययुः क्वैता हि सङ्गीतयोषितोऽत्रेत्यचिन्तयत् ॥१०४॥ रत्नमालाकथा । २४१
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy