________________
तद्वत्सा स्वप्रतिज्ञातं विदधातु त्वराऽञ्चिता । यथातथाऽपि राज्ञोऽस्य, कार्या ह्याज्ञा सुते ! त्वया ॥८१॥
रत्नमाला ततः प्रोचे, तात ! कारय सत्वरम् । याम्यायां दिशि जैनेन्द्रं, देववेश्म
समुन्नतम् ॥८२॥
पुरेऽत्र देवगेहेषु, सङ्गीतं या: प्रकुर्वते । तासां मध्यादथैकैका, कलानिष्ठामुपेयुषी ॥८३॥
आकृष्य द्रव्यदानेन, नवेऽत्र देववेश्मनि । सङ्गीतस्य विधानाय, विधेया पण्यकामिनी ॥८४॥ [ युग्मम् ]
परितो देवगेहं च, निष्पाद्यं पुरमुत्तमम् । मद्योग्यं सौधमेकं च, तत्र कारय विस्तृतम् ॥८५॥
ताश्च पण्याङ्गनास्तत्र, वास्तव्या: स्युर्यथा सदा । तथा तासां स्थितिः कार्या, मासपाटकसूत्रणात् ॥८६॥ तथैव कारितं सर्वं, मन्त्रिणा तन्निदेशतः । यो ह्यत्यर्थं व्ययत्यर्थं, तत्कार्यं लघु सिद्ध्यति ॥८७॥ ततश्च मन्त्रिपुत्री सा, रङ्गाचार्यादधीतिनी । गीते नृत्तेऽथ वीणायां, मृदङ्गे तालवंशयोः ॥८८॥ यथावद्दत्तसङ्केतदासीभिर्मृदुवाणिभिः । चित्ताऽनुवृत्तिशीलाभिर्मनोज्ञात्रीभिरञ्चिता ॥८९॥ गत्वा सा पुरसौधानि, यथायोग्यं विभज्य च । पण्यस्त्रीभ्योऽर्पयामास, रत्नमाला स्वयं ततः ॥९०॥
ददावलङ्कृतीस्ताभ्यो विस्फूर्जद्रत्नदन्तुराः । अन्यथाऽपि प्रसादेन, यथोचितमदाद्बहु ॥९१॥
ततो गुणनिकां कृत्वा, यथासम्पाठमादरात् । अतिक्रान्तत्रियामाऽऽद्यप्रहरेऽगाज्जिनौकसि ॥९२॥
२४०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।