________________
क्षुद्रादेशमिति श्रुत्वा, राजानं प्राह धीमती । राजाऽऽदेशः प्रमाणं मे, विशेष: श्रूयतामसौ ॥६९॥ यथाऽऽदिष्टस्त्वया स्वामिंस्तथा जन्यः सुतो मया । वाह्यश्च शिरसा त्वं हि, ध्रुवमुपानहौ निजे ॥ ७० ॥ इति प्रतिज्ञामाधाय, भूमिमाहत्य पाणिना । ययौ मन्त्रिसुता वेश्म, पैतृकं मानिनीवरा ॥७१॥ चिन्तया जग्रसे साऽथोपविश्य रहसि क्षणम् । यथाकार्यं तथाकार्यमालोच्य चेतसा ततः ॥७२॥
गत्वाऽऽख्यन्नृपतेर्वाचं, क्षुद्राऽऽदेशं हि मन्त्रिणे । मन्त्री प्रोवाच वत्से तत् किं कर्तव्यं त्वयाऽधुना ? ||७३ || रत्नमाला तत: प्रोचे, नैतन्मे तात ! दुष्करम् । परं कूटप्रयोगोऽत्र, कार्यसिद्धौ प्रगल्भते ||७४|| स च लज्जाकरः स्त्रीणां, कुलीनानां प्रवादकृत् । यदपकीर्त्तिकृल्लोके, तन्न कार्यं विवेकिभिः ॥७५॥ अथ च भूभुजा क्षुद्राऽऽदेशोऽयं प्रददे मम । मया चोरीकृतः सम्यगविचार्यैव चेतसा ॥७६॥ गजनिमीलिकां कृत्वा, स्थीयते वा ततोऽपि मे । एवमेव हतं जन्म, रण्डाया इव दुःसहम् ॥७७॥ यदादिशति तातो मे, तत् कुर्वेऽतः परं खलु । स्त्रीणां स्वेच्छापरावृत्तिः, स्वकुलेन्दोर्हि लाञ्छनम् ॥७८॥ ततोऽमात्योऽवदद्वत्से !, युक्तेमर्थं प्रकुर्वताम् । नहि कूटप्रयोगोऽपि स्यादपवादकारणम् ॥७९॥ स्त्रीणां चेच्छीलरक्षाऽभूत्तत्प्रवादाद्भवेन्न भी: । सतीत्वचन्द्रिकायां हि, मज्जन्त्यकीर्तितारकाः ॥८०॥
रत्नमालाकथा ।
२३९