________________
स्थानपालः पुनर्गत्वा, महीशाय व्यजिज्ञपत् । किशोरकाणां व्याषेधं, स्वामिन् ! मन्त्रिसुता व्यधात् ॥५७॥
कथमित्यथ विज्ञातुं, बृहत्पुरुषमादिशत् । गत्वाऽमात्यसुतां पृच्छ, किं दधासि किशोरकान् ? ॥५८॥ एत्याऽमात्यसुतां सोऽथाऽप्राक्षीद्वयाषेधकारणम् । साऽप्यूचे स्युः पितुः पुत्रा, इति राजा न वेत्ति किम् ? ॥५९॥ मदीयाऽश्वस्य संयोगादेते जाता किशोरकाः । इति सम्बन्धबन्धेन, धृता ह्येते मया खलु ॥ ६० ॥ बृहत्पुमानथो राज्ञे, व्यजिज्ञपद्यथातथम् । तच्छ्रुत्वा नृपतिर्दध्रेऽमर्षकोपौ स्वचेतसि ॥६१ ॥ वसन्तसमये प्राप्तेऽन्यदोद्यानं समीयिवान् । राजा रत्नाऽङ्गदोऽपश्यद्रत्नमालां पुराऽऽगताम् ॥६२॥ अमात्यस्य सुता सेयमिति ज्ञात्वा महीपतिः । स्मृत्वा चाऽश्वनिषेधं तं, तस्यामनुशयं दधौ ॥६३॥ कृत्वा केलि वरोद्याने, सौधेऽगान्नृपतिस्ततः । अभाणीन्मन्त्रिणं देहि, मह्यं त्वं तनयां निजाम् ॥६४॥ सर्वमेतत्त्वदीयं तद्गृहाण रोचतेऽत्र यत् । इत्युक्तो मन्त्रिणा भूपो रत्नमालामुपायत ॥६५॥ तस्यामेव तमस्विन्यां, गत्वा रहसि भूपतिः । क्षुद्रभावात् समादिक्षद्रत्नमालामिति स्फुटम् ॥६६॥ यावत्ते तनयो न स्यात्तावत् स्थेयं पितुर्गृहे । पुत्रे जाते पुनः शीघ्रमागच्छेर्मम सद्मनि ॥६७॥
मयाऽसि परिणीतैव, नाऽसि स्पृष्टाऽपि पाणिना । रन्तव्यो न परः कोऽपि, पुत्रो जन्यः स्वकौशलात् ॥६८॥
२३८
4A
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।