________________
आलोक्याऽऽद्यार्हतो मूर्तिमुच्छृङ्खलमनर्गलाम् । आनन्दाऽमृतमग्नेव, रत्नमाला बभूव सा ॥४५॥ आनाय्य साऽथ दासीभ्यः, पूजामष्टविधां ततः । शुचिवस्त्रा स्वयं भूत्वा, साऽऽनर्चाऽऽदिजिनं मुदा ॥४६।। ततश्च पुरतो भूत्वा, यावद्वन्दितुमाददे । वस्त्राऽन्तमग्रपाणिभ्यां, तावच्छ्लोकं ददर्श सा ॥४७॥ श्लोकं निरुप्य सा जातिस्मरणं प्राप तत्क्षणात् । अज्ञासीच्च शुकीपुत्रवृत्तं स्वं पूर्वजन्मजम् ॥४८॥ अमर्षं दधती राज्ञि, स्मृतपुत्राऽर्पणात् क्षणात् । यथाविधि नमस्कृत्य, देवानात्मगृहं ययौ ॥४९॥ सा बुद्ध्या वीक्ष्यमाणाऽस्थान्नित्यं तद्गतमानसा । रत्नाऽङ्गदनृपे पुत्रदुःखप्रतिकृतिक्रियाम् ॥५०॥ तिर्यग्जन्म परित्यज्य, प्राप्यैव जन्म मानुषम् । उच्चैर्गोत्राऽमात्यपुत्री, शशंसाऽनशनं निजम् ॥५१॥ नीतिसारगृहे राज्ञो वडवाः कतिचित् किल । मन्त्रिजात्याऽश्वसंयोगादन्तर्वन्त्योऽभवन्क्रमात् ॥५२॥ रत्नमालाऽपि विज्ञाय, निजाऽश्वयोगगर्भिणीः । राज्ञस्ता वडवाश्चित्ते, मुमुदे बुद्धिशालिनी ॥५३॥ क्रमेण ताः प्रसूताश्च, सुलक्षणान् किशोरकान् । स्थानपालस्ततो गत्वाऽऽचख्यौ राज्ञेऽश्वजन्म तत् ॥५४॥ हृष्टो राजा ददौ तस्मै, पारितोषिकमात्मना । तदैव चाऽप्यथाऽऽदिक्षदानयाऽश्वाः सहाऽर्भकैः ॥५५॥ स गत्वा वडवा यावद्गृह्णाति सकिशोरकाः । रत्नमाला ततोऽभ्येत्य, न्यवारयत् किशोरकान् ॥५६।।
रत्नमालाकथा।
२३७