________________
प्रष्टव्याः किन्तु ते वृद्धा, नीतिशास्त्रविदो हि ये । सत्कीर्तिर्वाऽपकीर्तिर्वा, पञ्चभिः सह सह्यते ॥२१॥ राजाऽमात्यवचो न्याय्यमभिनन्द्य ततः स्वयम् । हस्तन्यस्तशुकद्वन्द्वो धर्माऽधिकरणं ययौ ॥२२॥ तत्र चाऽधिकृतान् दत्तगौरवान् सचिवान् स्वयम् । पप्रच्छाऽपत्यवादं तं, पक्षपाती शुकस्त्रियाम् ॥२३॥ नीतिशास्त्राण्यथाऽऽनीय, विलोक्याऽपत्यनिर्णयम् । ऊचुर्नाथ ! पितुः पुत्रो मातुर्भवति पुत्रिका ॥२४॥ इति श्रुत्वा नृपो नीति, परतन्त्रोऽवदच्छुकीम् । त्वं शुकायाऽर्पयाऽपत्यं, नीतिदृष्टमिदं शुकि ! ॥२५॥ रोदयन्तीक्षकं नारीवर्ग सा रुदती स्वयम् । उवाच भूपमेतत्ते, सम्मतं नृपसत्तम !? ॥२६॥ राजाऽऽह न शास्त्रदृष्टमन्यथाकर्तुमीश्महे । शुकी प्राह त्वदादेशादर्पितोऽयं सुतो मया ॥२७॥ किन्तु लेखय पत्रेषु, किलेदृक्षं विधि नृप ! । यदवश्यं पितुः पुत्रो नाऽन्यस्य कस्यचित्ततः ॥२८॥ लेखितेषु नृपेणाऽऽशु, विध्यक्षरेषु सा शुकी । स्नेहादालिङ्ग्य चाऽऽघ्राय, मूर्ध्नि पुत्रमदोऽवदत् ॥२९॥ गर्भक्लेशसहैवाऽस्मि, न लभ्यं ते सुखं मया । तथाऽपि शरदां लक्षं, जीव पुत्र ! मदाशिषः ॥३०॥ एतावदेव सम्भाव्यं, जीवितव्यं ममाऽपि हि । विना पुत्रं प्रियं चाऽपि, मानिनीनां न जीवितम् ॥३१॥ इत्युक्त्वाऽश्रूणि मुक्त्वा च, मुहुरालिङ्ग्य वक्षसा । त्यक्त्वा तत्र सुतं बालमुड्डीयाऽगात्क्वचिच्छुकी ॥३२॥
रत्नमालाकथा।
२३५