________________
इति निश्चित्य कीरा सा, पुत्रमादाय यत्नतः । पुरोगेण शुकेनाऽथ, ययौ श्रीवल्लभे पुरे ॥९॥ रत्नसिंहासनं शोणं, शक्रप्रतापपुञ्जवत् ।
आक्रम्याऽऽसेदुषो राज्ञोऽकस्मात्पुरः शुकोऽपतत् ॥१०॥ कुतः शुकोऽयमायासीदिति मोदिनि भूपतौ । चञ्चुगृहीतपुत्रा सा, ततश्चाऽगाच्छुकप्रिया ॥११॥ राजा रत्नाऽङ्गदो दृष्ट्वा, सापत्यं कीरयुग्मकम् । कौतुकादग्रहस्ताभ्यां, कीरद्वन्द्वमथाऽग्रहीत् ॥१२॥ निःश्वस्य कीरिकाऽऽचख्यौ, राज्ञे वृत्तान्तमात्मनः । ममाऽङ्गजं कथं नाथ !, याचतेऽयं शुको बलात् ? ॥१३॥ शुकः प्रोवाच भो राजन् ! अहं बीजी किलाऽस्य तत् । । याचयामि सुतं स्वं तु, ततः कोऽत्र ममाऽनयः ? ॥१४॥ राजाऽथ चिन्तयामास, शुकद्वन्द्वमिदं मिथः । विरक्तं व्यलीके क्वाऽपि, स्नेहो निर्वाहमेति न ॥१५॥ त्यजन् कीरीं शुकः पुत्रं, स्वेनैवाऽऽदातुमिच्छति । अनन्यशरणा कीरी, तं नाऽर्पयितुमीहते ॥१६॥ पुरुषत्वाच्छुकः सैष, वर्त्तिष्यते यथातथा । एकाऽपत्या वराकीयं, भविष्यति कथं शुकी ? ॥१७।। तच्छुक्यै तनयोऽवश्यं, समर्प्य इति निश्चयः । स्त्रीत्वात्तु दैन्यपात्रां स, शुक्यां सार्दो नृपोऽवदत् ॥१८॥ शुक्याः पुत्रो भवेदेष, येनाऽनन्यगतिसौ । ततश्च स शुकः प्रोचे, वेत्सि नीति न किं नृप !? ॥१९॥ नीतिसारस्ततो मन्त्री, प्रोचे राजानमादरात् । नाथाऽयं निर्णयो देयो न स्वामिना स्वयं खलु ॥२०॥
२३४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः