________________
रत्नमालाकथा
कामलेखा समारेभे, रत्नमाला कथामिमाम् । अस्ति श्रीपर्वतो नाम, गिरि मुकुटोपमः ॥१॥ तत्राऽभूत् कीरयुग्मं यत्, प्रेमशृङ्खलितं मिथः । भुङ्क्ते शेते प्रयात्येति, सदैवाऽऽनन्दमेदुरम् ॥२॥ मन्थरप्रेमलीलानि, दिनानि समुपेयुषी। अन्यदा सुषुवे पुत्रं, शुकी निःशोकमेव हि ॥३॥ वर्द्धमाने सुते तस्मिन्, स्वपित्रोः स्नेहलालनात् । स्नेहपशुः कदाऽप्यासीत्, कलहः शुकयोमिथः ॥४॥ उच्चावचवचांस्युक्त्वा, प्रश्लथप्रेमबन्धना । शुक्याहाऽतःपरं नाऽहं, भार्या ते त्वं न मे पतिः ॥५॥ ततः प्रोचे शुकः पुत्रं, मदीयं मे समर्पय । शुकी प्राहाऽङ्गजं स्वं हि, म्रियमाणाऽपि नाऽर्पये ॥६॥ शुकोऽवोचद्ग्रहीष्यामि, बलादपि निजं सुतम् । किं न वेत्सि पितुः पुत्रो मातुः पुत्रीत्यमूं स्मृतिम् ? |७|| शुक्यूचे तर्हि गच्छावः, श्रीवल्लभाऽभिधे पुरे । तत्र रत्नाऽङ्गदो राजा, यद्वक्ता तत्करिष्यते ॥८॥
रत्नमालाकथा।
२३३