SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अजानत इवैतस्मै, जयराजाय भूभुजे । स्वयंवराऽऽगतां स्नेहाद्राजपुत्रीं न्यवेदयत् ॥२९५।। राजाऽपि स्वकथाऽऽख्यानाद्राजपुत्रीकथाश्रुतेः । मिथो वाक्संवाद इति, पर्यणैषीनृपाऽऽत्मजाम् ॥२९६।। तथैव जयलक्ष्मी च, शत्रुनिग्रहणादसौ । उपयम्य समागात्स्वं, जयराजः पुरं ततः ॥२९७।। अनङ्गसुन्दरीनाथः, सनाथः प्रियया तया । विलासमिव साम्राज्यं, करोत्यर्थत्रयप्रियः ॥२९८।। कथामिति निवेद्याऽथ, कुब्जिका प्राह सस्मितम् । कामलेखे ! किलेदृक्षाः, कृतघ्ना दम्भिनो नराः ॥२९९॥ पश्य हंसेन सा हंसी, तादृशि व्यसने क्षणात् । सापत्या तत्यजे तत्को विश्वासः प्रेम्णि कामिनः ? ॥३००॥ पश्य त्वं जयराजेन, मायया चित्रकारिणा । चक्रे राजसुता कान्ता, दम्भः पुंसु यतो जयी ॥३०१॥ कामलेखा ततः प्राह, सखि ! सत्यं ब्रवीषि हि । प्रत्ययः कस्य नैषोऽभूत्, पुंसां दम्भपटीयसाम् ? ॥३०२॥ परं सखि ! पुमांसोऽमी, तावद्दम्भविजृम्भिणः । यावद्बुद्धिविलासोऽत्र, नाऽबलानां प्रगल्भते ॥३०३॥ श्रुतः किं नु त्वया राजा, रत्नाऽङ्गदः सुधीरपि । मूर्जा ह्युपानहौ सौधे, वाहितो रत्नमालया ॥३०४॥ सम्भ्रमात् कुब्जिका प्राह, सखि ! नाऽसौ मया श्रुतः । कथय तत्कथां येनाऽद्याऽपि रात्रिर्गरीयसी ॥३०५॥ जयराजकथा समाप्ता ॥ २३२ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy