________________
गत्वा मन्त्र्यपि भक्त्याऽऽर्वचोभिः स्नपयन्नमुम् । प्रत्यावर्त्य समानिन्ये, पुनरेव पुरे क्षणात् ।।२३५।। श्रोतुमुत्कण्ठितो राजा, सभामापूर्य राजकैः । आकारयज्जयराजगायनं वेत्रिपुङ्गवात् ॥२३६।। एतदेवेहमानोयं, सज्जीभूय कृतत्वरः । तं चित्रपटमादाय, जगाम राज्यसंसदम् ॥२३७॥ अन्तःपुरं नृपाऽऽदेशात्, स्थितं यवनिकाऽन्तरे । कन्याऽन्तःपुरमप्येत्योपाविक्षदुपभूपति ॥२३८॥ यदर्थमयमारम्भो, नाऽऽयात्यद्याऽपि सा प्रिया । इत्यनुत्साहाच्चक्रे स, कालक्षेपं तदागमे ।।२३९॥ इतश्च ललिता दध्यौ, यद्यैनामधुनाऽप्यहम् । न नेष्यामि सभां राज्ञस्तन्न श्रोष्यति तां कथाम् ॥२४०॥ ततोऽपि मम मित्रस्य, न स्यात्पूर्णो मनोरथः । कथञ्चित्तन्नयाम्येनामनङ्गसुन्दरी सभाम् ॥२४१।। ऊचे च सखि ! विज्ञाऽसि, कलानां स्वयमेव हि । परं तथाऽपि श्रोतव्यः, संवादाय परोऽपि च ॥२४२॥ तदद्य श्रूयते कोऽपि, देशाऽन्तरादिहाऽऽगतः । गायनः पुरतो राज्ञः, सङ्गीतमभिनेष्यति ॥२४३।। आगताश्च पुरैवाऽत्र, त्वज्ज्यायस्योऽपि सोदराः । आजूहवच्च राजा त्वां, तद्गीतिश्रवणाय यत् ॥२४४।। तत्तत्र गम्यते येन, दुःखविस्मारको ह्ययम् । अलङ्कृतीरलङ्कृत्य, त्वमुत्तिष्ठ पुरो भव ॥२४५।। यथा धर्माय श्रोतव्यं, देवताचरिताऽऽदिकम् । तथा मनोविनोदाय, श्रोतव्या गीतिरीतयः ॥२४६।।
जयराजकथा ।
२२७