SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ललितयेति सा प्रोक्ता, चचालाऽनङ्गसुन्दरी । मान्यं लोकवचो येन, नोल्लङ्घ्यं निहता क्वचित् ॥२४७।। ललिताऽऽदिसखीवृन्दस्वच्छन्दाऽऽनन्दमोदिनी । राजपुत्री समभेत्य, राजाऽऽदिष्टा समाविशत् ॥२४८।। जयराजनृपस्वाऽन्तचकोराऽमृतदीधितिः । अनङ्गसुन्दरी पट्यान्तरिता दृष्टिमाक्षिपत् ॥२४९॥ तदृष्ट्या ज्योस्त्रयेवैष, क्षीरसागरवन्मुदा । आश्लिष्टोऽधान्नवोल्लासिगीतिगर्जितमूर्जितम् ॥२५०॥ वेत्रयष्ट्या पृथक् स्पष्टं, दर्शयश्चित्रचित्रितम् । चरित्रं हंसयोर्गीतं, तस्याऽनुसारि गायति ।।२५१॥ करुणामिश्रितैर्गीतैः, करुणेन च हंसयोः । चरित्रेण नृपो जज्ञे, ससभः साऽश्रुलोचनः ॥२५२॥ अनङ्गसुन्दरी पूर्वजन्मवृत्तं यथातथम् । दृष्ट्वा श्रुत्वा च सा प्राप, शोकप्रमोदविस्मयान् ॥२५३।। अजानतीव ललिता, तामूचे सम्भ्रमात्सखि ! । यत्त्वया कथितं मेऽभूत्तत्त्ववृत्तं प्रगीयते ॥२५४।। ललितां राजपुत्रीं च, भाषमाणां मिथः शनैः । दृष्ट्वा स गायनः प्रीतिमनिर्वाच्यां जगाम च ॥२५५।। व्याचष्टे कोऽपि तद्गीतं, कोऽपि हंसं निनिन्द च । तादृग् तनयवात्सल्यं, हंस्याः सर्वोऽपि तुष्टुवे ॥२५६।। गीताऽनुरागतः कोऽपि, हंसीकारुण्यतः परः । गायनस्वरमाधुर्यात्, कोऽपीति मुमुदे सभा ॥२५७।। अनङ्गसुन्दरी त्वेषा, स्ववृत्तश्रवणादभूत् । मवृत्तान्तः कथं ज्ञातोऽमुनेति ज्ञातुमुत्सुका ॥२५८॥ २२८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy