SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगच्छन्तं पयःपूरमिवाऽऽशु तत्सरः प्रति । इतस्ततस्ततो नश्यत्पक्षिश्वापदघस्मरम् ॥२११।। तत्कालप्रसूतां हंसी, त्राणायाऽऽदिशतीं प्रियम् । अधस्तात्पक्षतेय॑स्तबालाऽपत्यां रुददृशम् ।।२१२॥ हंसं च दयितापुत्ररक्षायै चिन्तयाऽऽकुलम् । पुनः पुनः प्रियाऽऽदेशाद्गतं स्थानाऽन्तरे क्षणे ॥२१३।। स्थानाऽन्तरं निराबाधमपश्यन्तं क्वचित्ततः । भ्रमं भ्रमं पुनः स्वं तन्नीडं सत्वरमागतम् ॥२१४॥ विना तत्र प्रियां पुत्रमेकं च तौ परौ सुतौ । दह्यमानौ दवार्चिष्मज्ज्वालाभिर्वीक्ष्य मूच्छितम् ॥२१५॥ पुनराश्वस्य गत्वा च, सरस्याकुलपक्षिणि । कष्टात् सलिलमानीय, चञ्च्वा सिञ्चन्तमात्मजौ ॥२१६।। गतजीवौ च तौ मुक्त्वा, प्रेक्षमाणमितस्ततः । प्रियां च तनयं चैव, गतं बकस्थलोपरि ॥२१७।। अर्हन्मूर्तेः पुरो दृष्ट्वोत्खातश्वासां प्रियां ततः । तज्जीविताऽऽशया नेतुं, नीरं यान्तं सरः प्रति ॥२१८।। सकृदानीय तोयं च, सिञ्चन्तं ससुतां प्रियाम् । व्याघुट्याऽऽशु पुनर्यान्तं, सरस्यत्रैव वारिणे ॥२१९॥ पक्षिश्वापदसंछन्ने, सरस्यौत्सुक्यगामिनम् । शृङ्गिणा केनचिच्छृङ्गेणाऽऽहतं मृतमेव च ।।२२०॥ इति चित्रपटे वृत्तं, चित्रयित्वा यथास्थितम् । राजा तदनुसारीणि, गायनान्युदयोजयत् ॥२२१॥ द्रव्यदानादकार्षीच्च, चतुरः पृष्ठगायनान् । सम्पाद्य तेषां गीतानि, कलकण्ठः स्वयं नृपः ।।२२२॥ जयराजकथा । २२५
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy