________________
अनङ्गसुन्दरी प्राह किमन्यद्धनमुच्यते ? |
न पाणिग्रहणं मे स्यादत्र जन्मनि केनचित् ॥ १९९॥ तैरश्च्येऽपि हि दृष्टाभ्यां, ददे याभ्यामयं भवः | तावेव मोक्षदौ पादौ, नाभेयस्य गतिर्मम ॥ २००॥ सकोपं ललिता प्राह, जडे ! कदाग्रहाऽसि किम् ? । न वेत्सि पितरौ द्विष्टवरां त्वां वीक्ष्य दुःखिनौ ॥२०१॥ त्यक्त्वा कदाग्रहं तत्त्वं, भणतः पितरौ हि यत् । ममाऽनुरोधतश्चाऽपि, प्रीतिर्यत्र वृणीष्व तम् ॥ २०२॥ राजपुत्र्याह मे हंसजीव एव पतिर्भवेत् । सोऽपि क्वाऽपि नरीभूतो भावी यत्तत्र मे रतिः ॥२०३॥
नाऽपरस्तावदिन्द्रोऽपि, पतिः स्यान्मम कश्चन । सखि ! सैष ग्रहो मेऽभूत्तत्कोऽपि क्वाऽपि तोषभाक् ॥२०४॥ अथ सा ललिता चित्तेऽवधार्य तत्कथाप्रथाम् । तदन्यवार्ताव्याक्षेपात्तच्चित्तं ह्यन्यतोऽनयत् ॥२०५॥
ततोऽनुज्ञाप्य तां राजतनयां ललिताऽगमत् । स्वस्थानं निशि चख्यौ च, राज्ञे व्यतिकरं तु तम् ॥२०६॥
राजा निशम्य वृत्तान्तं, मित्राऽऽख्यातं पुनः पुनः । राजपुत्रीं मनश्चौरीं, तद्बुद्धिं प्रशशंस सः ॥२०७॥
अपृच्छच्च धियं मित्राद्राजपुत्रीकरग्रहे । पर्यालोच्य स्वचित्ते स, वयस्योऽचीकथन्मतिम् ॥२०८॥ ततश्चित्रपटं चित्रं, कारयामास भूपतिः । तदेव हि सरस्तत्र, विन्ध्यस्याऽधो लेखयत् ॥ २०९॥ ज्वालाजटालं दावाऽग्नि, परो लक्षभुजं तु किम् ? । दह्यमानाऽऽर्द्रवृक्षोत्थफेनरोमन्थचर्विणम् ॥ २१०||
२२४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।