SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ देवसाक्षिकमालोच्य, तैरश्च्यजन्मदुष्कृतम् । स्वामिदर्शनलाभेन, समुपार्जयमुत्तमम् ॥१८७।। उच्चैर्गोत्रं पवित्रं च, मानुषं जन्म दुर्लभम् । आरूढः प्राप्यते यत्र, मोक्षवृक्षफलं सुखम् ॥१८८॥ पुर एव स्थिता स्वामिमूर्तेागायुषः क्षयात् । मृत्वा सुखेन राज्ञोऽस्य, पुत्री जाताऽस्म्यहं सखि ! ॥१८९।। इति वन्ध्यगिरौ दृष्ट्वा, पूर्वाऽनुभूतमेव हि । तत्सरस्तज्जिनौकश्चाऽस्मार्षं पूर्वभवस्थितिम् ॥१९०॥ ततस्तत्तादृशि प्रेम्णि, हंसोऽत्याक्षीत् क्षणेन यत् । तन्मे सखि ! नरद्वेषश्चेतसाऽङ्गीकृतोऽधिकम् ॥१९१॥ पुमांसः पश्य पुंस्त्वं नोत्तमा अप्यधमा इव । कुलीनां शीलपां नारीमस्वतन्त्रां त्यजन्ति ये ॥१९२॥ श्रुत्वैतल्ललिता तस्याः, पूर्वजन्मविरागतः । पुरुषद्वेषजन्यं हि, कुमारीत्वमथाऽवदत् ॥१९३॥ अनङ्गसुन्दरि ! त्वां हि, किञ्चिद्वच्मि शृणोषि चेत् ? । सखि ! स्थातव्यमित्थं हि, कियत्कालं पति विना ? ॥१९४|| तस्य यद्यपि हंसस्य, मृत्युभीतिमुपेयुषः । त्वय्यभूदपराधो यः, स्मर्यते जन्मकोटिषु ॥१९५॥ तथाऽपि ते नरद्वेषः, कर्तुं स्यादुचितो नहि । विवेको मृत्युभीभाजां, किं नु स्यात् किल देहिनाम् ? ॥१९६।। मृत्युभीतस्त्यजत्येव, पितृमातृप्रियासुतान् । वज्रभीत्या त्यजन् सर्वं, मैनाकोऽब्धौ पपात यत् ॥१९७॥ सख्यं ते मयि यद्यस्ति, मन्यसे चेद्वचो मम । उपयच्छस्व तत्किञ्चित्कुलीनं नरपुङ्गवम् ॥१९८॥ जयराजकथा। २२३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy