________________
ज्वालाभिस्ताभिरङ्ग मे, ज्वलत्कृतमितस्ततः । ततो भुवङ्गता क्लीबाक्षतपक्षपदा तदा ॥१७५।। ततः सरसि तत्रैव, मध्ये त्वस्ति बकस्थलम् । निचितं सर्वतो नानापक्षिभिर्जीविताऽऽकुलैः ॥१७६।। तत्र विद्याधरैरात्मवंशाऽऽदिपुरुषस्य तु । श्रीमदादिजिनेन्द्रस्य, प्रासादोऽस्ति कृतो महान् ॥१७७।। मध्ये रत्नमयी मूर्ति भेयस्य न्यधीयत । आनचुस्तां तु गान्धर्वविद्याभृत्किन्नरेश्वराः ॥१७८॥ चञ्चूधृतसुता चाऽहं, भ्राम्यन्ती परितो नभः । क्रमात्क्षीणगतिस्तत्राऽऽगत्याऽपतं पुरः प्रभोः ॥१७९॥ निर्घातेन ततः पुत्रः, क्षणेन प्राप पञ्चताम् । अपायानां शतानि स्युर्मृत्युकारीणि सापदाम् ॥१८०॥ निर्घातेन तु तेनाऽहं, जाताऽस्मि चलिताऽऽत्मका । पुण्यान्मे दृष्टिरालीना, मूर्तावेव जिनेशितुः ॥१८१।। पश्यन्त्या मे प्रभोर्मूर्ति, वह्निदाहव्यथाप्रथा । निर्घाताऽऽर्त्तिश्च किञ्चित्तूपशशाम क्षणादपि ॥१८२।। यतः- दर्शनात्तीर्थनाथानां, प्रनष्टदुष्टकर्मणाम् । प्राप्य मोक्षं मृतिर्न स्याद्वराकी किं पुना रुजा ? ॥१८३॥ यथा दृष्टिस्तथा चित्तं, लीनं मे प्रभुपादयोः । ततो नाऽज्ञासिषं पीडां, विव्यथे न सुतव्ययः ॥१८४।। जातौ तिरश्चामुत्पन्नाऽप्यकस्मादहमात्मना । प्रभुप्रासादमासाद्य, विवेकोन्मेषमासदम् ॥१८५॥ दुरापेन विवेकेन, मानुषीवाहमुत्तमा । अदां समस्तजीवानां, मिथ्यादुष्कृतमञ्जसा ॥१८६।।
२२२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।