________________
कैश्चित्प्रक्षिप्यमाणाऽपि, पात्यमानाऽपि कैश्चन । मर्द्यमानाऽपि चाऽन्यैश्चाऽन्योऽन्यसम्मर्दनाऽर्दनात् ॥१६३॥ उपर्युपरि चाऽऽसीनैर्मज्जद्भिः प्रतितीर्षुभिः । स्वजीवरक्षाकृतये, प्रेरयद्धिमिथोर्मिभिः ॥ १६४ ॥ सरः प्रच्छादितं मूलान्न द्रष्टुमपि चोत्सहे । किं पुनर्लातुमम्भस्तदुरापं बोधिबीजवत् ॥ १६५॥ भ्रमं भ्रमं सरोऽपश्यं, ग्रहीतुं सलिलं क्वचित् । प्रापं चाऽन्तरमेकत्र, चञ्च्वाऽगृह्णं पयस्ततः ॥ १६६॥ यावदायामि नीडे स्वे, तावत्पश्याम्युदचिषा । दह्यमानान् सुतान् बालान्, वेल्लतः क्रन्दतः क्लमात् ॥१६७॥
हा ! हताऽस्मीति करुणं, क्रन्दन्ती पुत्रवत्सला । तेषामुपरि क्षिप्त्वा च, नीरं द्राक्तानुदक्षिपम् ॥१६८॥ एकचञ्चरहं नेतुमशक्ता ह्येकहेलया । ततो हताऽहमुत्पाद्य, पुत्रमेकं गताऽन्यतः || १६९॥ तत्राऽपि व्यानशे भूमिर्जङ्गालेन दवाऽग्निना । अक्षमा तत्र मोक्तुं तं, पुनरागां निजाऽऽलयम् ॥१७०॥ तत्राऽपश्यं सुतौ स्वीयौ, दग्धौ हतदवाऽग्निना । ततो दुःखश्लथाऽङ्गया मे, सुतश्चञ्चधृतोऽपतत् ॥१७१॥ अन्यौ तावन्मृतौ पुत्रौ, जीवत्येकोऽयमर्भकः । एनं रक्षामि चेत्क्वाऽपि, माता माता तदाऽस्म्यहम् ॥१७२॥ इति विचिन्त्य निर्भीका, वात्सल्याद्दववह्नितः । वेगान्यग्भूय किञ्चिच्च, दग्धं ह्युदक्षिपं सुतम् ॥१७३॥ ततश्चोर्ध्वशिखो वह्निः, किल मोचयितुं सुतम् । स्फुरज्ज्वालावरत्राभिः, परितः पाशमक्षिपत् ॥१७४॥
जयराजकथा ।
२२१