SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उत्पेदेऽथ मम क्षिप्रं जातिस्मरणमुज्ज्वलम् । तद्वशादहमस्मार्षं, पूर्वजन्मस्थितिं निजाम् ॥१२७॥ पुरा जन्मन्यहमासं, हंसी सरोवरेऽत्र यत् । ममाऽभूद्दयितो हंसः, प्रेमसर्वस्वमन्दिरम् ॥१२८॥ आधिव्याधिव्यथात्यक्तौ, कुर्वन्तौ केलिमञ्जसा । प्रणयरोषतोषाभ्यामावां स्वो ललिताविह ॥ १२९ ॥ अथ संसारसौख्यानि, भुञ्जानाया ममाऽभवत् । गर्भः शरीरचेष्टाभिर्ज्ञातपुत्रस्वरूपकः ॥१३०॥ ततोऽहं मुदिता गर्भरक्षामादधती स्फुटम् । सरस्तीरवृक्षनीडे, प्रसूताऽस्मि सुतत्रयम् ॥१३१॥ स्वर्गसौख्यादपि परं, सौख्यं प्रापमहं ततः । जाताऽस्मि चोद्धता चित्ते, दुर्द्धर्षा स्त्री सुतात्किल ॥१३२॥ मत्कान्तश्चेष्टयाऽऽख्यातपुत्रोत्पत्तिमुदाऽश्रुभाक् । आनीयाऽऽनीय भक्ष्याणि, ददौ मह्यं मुहुर्मुहुः ॥१३३॥ शीतवाताऽऽतपत्राणाऽम्भोजपत्रैः स भूरिभिः । परितो नीडमावव्रे, स्वाऽपत्यप्रीतिरीदृशी ॥१३४॥ ततोऽस्माकमपुण्येन, पर्वतेऽस्मिन् दवोऽलगत् । ज्वालाभिर्विहितः प्रोच्चैः, प्राकारः परितो नगम् ॥१३५॥ सोऽथ वृक्षलतापक्षिश्वापदानथ तापसान् । धावतो नंष्टुमप्लोषीन्निघ्नन् ज्वालाचपेटया ॥१३६॥ सर्वं हि भस्मसात्कुर्वन्नुद्यन्वृक्षदिधक्षया । सरांसि शोषयंस्तापाद्दावोऽगान्नः सरस्यथ ॥१३७॥ वयांस्यन्यान्यथोड्डीय, कृताऽऽक्रन्दानि कानिचित् । आसन्नाऽग्निज्वलत्पाथस्तडागेऽह्नाय बुब्रुडुः || १३८|| २१८ -~ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy