________________
व्याजात्कुतोऽपि ललिता, निस्सृत्याऽथ मठाबहिः । सङ्केतस्थाननिष्ठाय, राज्ञे सर्वं न्यवेदयत् ॥११५॥ अथैकदा परिव्राजिकाया अपाटवादसौ । ललिताऽपि तयाऽऽदिष्टा, राजपुत्रीगृहं ययौ ॥११६।। देवपूजां विधाप्यैना, प्रस्तावं प्राप्य सा मृदु । वार्तारसवशं नीत्वा, स्वस्मिन्नस्नेहयच्च ताम् ॥११७।। राजपुत्री ततस्तस्या, वाचि मृद्व्यामलीयत । दक्षः श्रोता सुस्निग्धेन, वक्त्राऽतिरज्यते खलु ॥११८॥ एकात्मीभावमानीय, राजपुत्रीं सहाऽऽत्मना । अपृच्छदन्यदैकान्ते, पुरुषद्वेषकारणम् ॥११९।। अनाख्यान्तीं ततो राजपुत्रीं सा ललिताऽब्रवीत् । सखि ! तन्नाऽस्ति यत्सख्यै स्निग्घायै न निवेद्यते ॥१२०॥ त्वं तु नाऽऽख्यासि तत्सख्यं, स्वाऽमिप्रायाऽनिवेदनात् । कलङ्कयसि यन्न स्यात्स्नेहो दुःखाऽनिवेदकः ॥१२१।। इति प्रणयकोपोक्त्या, पृष्टा ललितया भृशम् । अनङ्गसुन्दरी स्नेहादचीकथत् कथामिति ॥१२२॥ एकदा सखि ! विन्ध्याऽद्रौ, गताऽस्मि क्रीडितुं मुदा । तत्राऽपश्यं सरः पद्मखण्डमण्डितमद्भुतम् ॥१२३।। तस्य दर्शनमात्रेणोन्मनीभूयाऽपतं भुवि । गतजीवेव नो जाने, काऽहं ? क्वाऽस्मीत्यचेतना ॥१२४॥ अकस्मान्मूर्च्छयाऽऽश्लिष्टां, मां समीक्ष्य सखीजनः । किमेतदिति सम्भ्रान्तः, सिञ्चन्नीरैरवीजयत् ॥१२५।। पयः पयो वायुर्वायुरित्युत्सुकपतत्क्रमैः । रुदद्भिरुच्चकैः कष्टादाश्वासिता सखीजनैः ॥१२६।।
जयराजकथा।
२१७