________________
इत्यालोच्य वयस्यस्य, बबन्ध कण्डकं पदे । भूत्वा च स्त्री तदैवा गात् स परिव्राजिकामठे ॥१०३॥ तयाऽऽतिथ्यं ततश्चके, स्वागतप्रश्नपूर्वकम् । तिष्ठ त्वमत्र निश्चिन्ता, भव शुश्रूषिका मम ॥ १०४॥ एकाकिन्या ममैषाऽभूत्, सहायेति मुदं गता । सा परिव्राजिका तस्यै, मुहुश्चक्रेऽनुवर्त्तनाम् ॥१०५॥ सुरूपत्वाल्ललितेति, नाम्नाऽऽह्वत्तां तपस्विनी । एषाऽपि ललितानाम, स्वस्य ज्ञात्वोत्तरं ददौ ॥ १०६॥ चक्रे च ललिता तस्यै, विनयं वपुषा गिरा । सा परिव्राजिकाऽत्यन्तं तां प्रति प्रीतिभागभूत् ॥१०७॥ देवतापूजने कृत्येष्वन्येष्वपि तपस्विनी । चक्रे ललितया प्रीता, विनयः कं न रञ्जयेत् ? ॥१०८॥ विनयाऽऽवर्जिता साऽथ, निन्ये राजसुताऽन्तिकम् । ललिता देवतापूजादर्शनव्याजमीयुषीम् ॥१०९॥
दृष्ट्वा राजसुतां दूराल्ललिताऽचिन्तयत् किल । निर्मायैनां विधेर्न स्त्रीनिर्माणं भाव्यतः परम् ॥११०॥
स्थाने मित्रस्य संरम्भः, स्थानेऽस्या अनुपुंद्विषा । एतावेव मिथस्तुल्यौ, नाऽन्यो लावण्यसम्पदा ॥ १११।। ततस्तदन्तिकं गत्वा, सा परिव्राजिका स्वयम् । अनङ्गसुन्दरीमिष्टदेवपूजामकारयत् ॥११२ ॥
पप्रच्छ राजपुत्री तां, भगवति ! कुतोऽनुगा ? | समागादियमूचे सा, देशान्मे परिचारिका ॥११३॥
राजपुत्र्या विसृष्टा च निजं धाम जगाम सा । नित्यं ललितया सार्धं, याति राजसुताऽन्तिकम् ॥११४॥
२१६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।