________________
चूताश्चाऽङ्कुरतर्जनीभिरभितः किं तर्जयन्त्यत्र को, नाऽऽज्ञां ते कुरुते मनस्यसि वसन् दूरेऽस्ति कस्ते स्मर !? ॥९१॥ इति राजा स्मराऽवस्थानिस्सहाऽङ्गः कथञ्चन । दीर्घा तमस्विनी वेल्लत्तनुयष्टिर्निनाय सः ॥९२॥ उदियाय ततो भानुराताम्रस्तमसि क्रुधा । गृह्णन् वह्ननिजं तेजो, न्यासं वर्तयितुं जनम् ॥९३।। स परिव्राजिकामेकामधिकृतां स्मराऽर्चने । पप्रच्छ राजदुहितुर्वृत्तान्तं निश्चयाय ताम् ॥९४॥ सा परिव्राजिका प्राह, चन्द्रचूडस्य भूपतेः । अनङ्गसुन्दरी नाम, पुरुषद्वेषिणी सुता ॥९५।। वयस्यः प्राह तां कश्चित्तया परिचयोऽस्ति ते ? । साऽऽह बाढं यतो नित्यं, देवाऽर्चा कारयाम्यहम् ॥९६॥ राजाऽऽह कथमेतस्याः, पुंसि द्वेषोऽथ साऽब्रवीत् । पुराऽपि पृष्टं बहुभिः, सा नाऽऽख्यद्वेषकारणम् ॥९७।। इत्याख्याय मठी प्राप्ता, सा परिव्राजिका क्षणात् । राजाऽप्युपायलाभाय, बुद्धिमाराधयन्निजाम् ॥९८॥ प्रापोपायं नृपोऽह्नाय, कण्डकात् स्त्री करोम्यमुम् । ततश्चाऽस्यास्तपस्विन्याः, स्यादेष परिचारिका ॥९९॥ ततस्तामनुगच्छन्त्याः, स्त्रीत्वात्परिचयस्तया । अस्याऽपि स्यात्ततश्चित्तं, तस्या विज्ञायते खलु ॥१००।। मित्रं प्रत्याह राजाऽथ, स्त्रीत्वकार्यथ कण्डकम् । त्वं तत्प्रभावतो नारीभूय याहि तपस्विनीम् ।।१०१॥ तां परिव्राजिकां स्निग्धविनयेनाऽनुरञ्जय । यथा राजसुतासौधे, विश्वासात्त्वां नयत्यसौ ॥१०२।।
जयराजकथा।
२१५