________________
वाचं संवृणु हे पिक !, द्रुतमिह त्वं हंस ! खजीभव, व्याकोशं विजहीहि पङ्कज ! भज त्वं भद्र ! निद्रां मृग ! । वैवयं व्रज राजचम्पक ! यतः साऽभ्येति नः प्रेयसी, यद्वक्त्रेण कलङ्कितः प्रतिकृतिस्पर्धी दधानः शशी ॥८१॥ इति कर्णाऽमृतं सूक्तमाकाऽऽनन्दिते नृपे । वेत्रधारी ततोऽभ्येत्य, प्रोचे सर्पत भो ! इतः ॥८२॥ यतोऽभ्येति सुता राज्ञो, नृदर्शनपराङ्मुखी । उद्यानं द्रष्टुमायाता, क्रीडिष्यति सखीयुता ॥८३।। ततोऽन्यत्र गतोऽहाय, भूपो दध्यावियं किल । भवेत् सा स्वप्नदृष्टेव, मन्मनः स्निग्धमत्र यत् ॥८४॥ सैवेयं वा नवेत्येवं, ज्ञास्यामि कुत ईदृशम् ? । यद्वा द्राक्षालताकुञ्जे, निलीयेमां विलोकये ॥८५।। ततो राजा समित्रोऽपि, प्रारुह्य द्राक्षमण्डपम् । आगच्छन्तीं विलोक्यैनां, सैवेयमित्यमन्यत ॥८६।। मनःस्थेन वनस्थेन, द्विधेनैष मनोभुवा । आसन्नोद्यानसुप्रापैः, पुष्पेषुभिरताड्यत ॥८७।। ततः सा वनमालोक्य, ययावक्षुभिताऽऽशया । असंस्तुतमपि स्वान्तमादायैव महीपतेः ॥८८।। चैतन्यमात्रमालम्ब्योत्ततार मण्डपान्नृपः । घ्नतस्तस्यैव कामस्य, प्रासादे निस्सहोऽपतत् ॥८९।। दृष्ट्वा चन्द्रमसं श्रुत्वा, पिकी स्पृष्टोऽथ वायुना । ततश्चोवाच सोद्वेगाऽपस्मारः स स्मरं प्रति ॥१०॥ चन्द्रः किं नु करोल्मुकैर्दहति मामुच्चाटयत्युच्चकै, रावा किं नु पिकी चिकीः किमनलीभूयाऽनिलो वाति यत् ।
२१४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।